Logoपवित्र ग्रंथ

हनुमत् कवच स्तोत्र यन्त्र महिमा (पराशर संहिता)

Hanumat Kavacha Stotra Yantra Mahima

हनुमत् कवच स्तोत्र यन्त्र महिमा (पराशर संहिता)
॥ हनुमत् कवच स्तोत्र यन्त्र महिमा ॥श्रीपराशर संहिता ।
अथाष्टसप्ततितमः पटलः ।

श्रीपराशरः -पार्वत्यै शङ्करेणोक्तं कवचं तु महद्धितम् ।
अत्यादरेण विप्रेन्द्र ! प्रोक्तं लोकहितायवै ॥ १॥

पार्वत्युवाच -देवदेव! जगन्नाथ! सर्वभूत वशङ्कर ।
केन रक्षा भवेन्नृणां भीतानां विविधापदैः ॥ २॥
मङ्गलञ्च महापुण्यं पवित्रं पापनाशनम् ।
श्रोतुमिच्छामि देवेश! वद मे करुणाकर ॥ ३॥

शिवोवाच -शृणु गुह्यतमं देवि ! भक्तामयविनाशकम् ॥ ४॥
सर्वसम्पत्करं गौरि गोपनीयं प्रयत्नतः ॥ ५॥
मदंशजो महातेजा महाबलपराक्रमः ।
सुभगस्सुन्दरश्शूरः शङ्करो भक्तवत्सलः ॥ ६॥
विजयो विष्णुभक्ताढ्यो रामदूतः कपीश्वरः ।
एवं प्लवङ्गरूपेण जातोऽहं श्रुणु पार्वति ॥ ७॥
अजोहं लोकरक्षार्थं रामदूतोऽस्मिचादरात् ।
वक्ष्यामि तस्य कवचं सादरेण प्रिये श्रुणु ॥ ८॥

॥ अथ पाठ करने की विधि ॥प्रातस्स्नात्वातु विधिना वस्त्राभरणभूषितः ।
प्रक्षाल्य पादावाचम्य सुगन्धश्चोर्ध्वपुण्ड्रधृत् ॥ ९॥
योगभूमिं प्रविश्याथ तां सम्प्रोक्ष्य च विन्यसेत् ।
आसनं कल्पयेत्प्राज्ञः सन्ध्यावन्दनमाचरेत् ॥ १०॥
गायत्री प्रजपेत् धीमान् प्राणायामत्रयं चरेत् ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ११॥
देवभूतादि कर्मेभ्यो आञ्जनेयमयः पुमान् ।
पादयोर्जानुनोरूर्वोरुदरेहृदिकन्धरे ।
मुखेशिरस्यानुपूर्व्यामोङ्कारादीनि विन्यसेत् ॥ १२॥
ॐ नमो रामदूतायेति विपर्ययमथापिवा ।
करन्यासो बुधः कुर्यात् द्वादशाक्षरविद्यया ॥ १३॥
प्रणवादि यकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ।
न्यसेद्धकारं हृदयेनुकारमनुमूर्धनि ॥ १४॥
शिखायातु मकारञ्च तेकारं भुजयोरसि ।
नकारं नेत्रयोर्युज्य मकारं स्वास्त्रमुद्दिशेत् ॥ १५॥
सविसर्ग पठेन्नित्यं सर्वदिक्षुविनिर्दिशेत् ।
मन्त्रं न्यासं ततः कृत्वा ध्यायेद्भक्त्या सुबुद्धिमान् ॥ १६॥

॥ अथ ध्यानम् ॥बालार्कसन्निभं देवं दिव्यकौपीनमुज्ज्वलम् ।
दिव्यमौञ्जीधरं शान्तं दिव्यकुण्डलधारिणम् ।
दिव्ययज्ञोपवीताढ्यं दिव्याभरणभूषितम् ।
किङ्किणीकटिसूत्रञ्च केयूरवनमालिनम् ।
रुद्रावतार सेनाढ्यमञ्जनागर्भसम्भवम् ।
भक्तानां भयहर्तारं रामदूतं नमाम्यहम् ॥ १७॥
इति स्तुत्वा हनूमन्तं निश्चलं कवचं पठेत् ॥ १८॥

॥ अथ कवचस्तोत्रम् प्रारम्भः ॥अस्य श्रीकवचस्तोत्रमन्त्रस्य ।
ईश्वर ऋषिः ।
अनुष्टुप्छन्दः ।
श्रीहनुमान् देवता ।
मारुतात्मज इति बीजम् ।
अञ्जनासूनुरिति शक्तिः ।
रुद्रावतार इति कीलकम् ।
श्रीहनुमत्प्रसादसिध्यर्थे जपे विनियोगः ॥

ॐ नमो रामदुताय ।
अष्टाक्षराय ।
हनुमते नमः ।
षडक्षरोऽयम् ।
दिशमैन्द्रीं भवतु मे अञ्जनाप्रियनन्दनः ।
दिशमवतु आग्नेय्यां लङ्काप्रासादभञ्जनः ॥ १॥
याम्यां दिशिरक्षतु मे केसरीप्रियनन्दनः ।
नैर्ऋतीं दिशपक्षघ्न्नः पातु मे प्लवगाधिपः ॥ २॥
पातु श्रीवायुपुत्रो मे वारुणीं दिशमव्ययः ।
सुग्रीवसचिवो नित्यं पातुम् मे वायुवीं दिशम् ॥ ३॥
रुद्रावतारोऽवतु मे कौबेरी दिशमक्षहा ।
श्रीरामदूतोऽवतु मे ईशान्यां दिशमव्ययः ॥ ४॥
अथस्तात्पातुमे नित्यं वालास्त्रो वरदो हरिः ।
ऊर्ध्वं दिशि रक्षतु मे शङ्करोऽमितविक्रमः ॥ ५॥
अन्तरिक्षं दिशं पातु नीतिज्ञो मे महाकपिः ।
बाह्याभ्यन्तर्दिशौ पातु पिङ्गाक्षोमेऽब्धिलङ्घनः ॥ ६॥
सुशिरोमे शिरः पातु फालं मे पातु पावनिः ।
दृशौ मे पातु सुदृशो कणौ पातु सुकर्णवान् ॥ ७॥
सुघ्राणः पातु घ्राणं मे मुखं तु प्लवगाननः ।
सुजिह्वः पातु जिह्वां मे कण्ठं पातु सुकन्थरः ॥ ८॥
सुस्कन्धः पातु मे स्कन्धो सुभुजोऽवतु मे भुजौ ।
सुकरोमे करौ पातु हृदयं सुहृदोमम ॥ ९॥
सुमध्यः पातु मे मध्यं नाभिं तु सुनाभिवान् ।
कटिं मे सुकटिं पातु ऊरू सुरूरुमान् मम ॥ १०॥
सुजानुः जानुनी पातु जवे पातु सुजङ्घवान् ।
सुपादः पातु मे पादौ सुनखो मे नखानि च ॥ ११॥
अनुक्त सन्धिनीपातु सर्वदा च सुसन्धिमान् ।
सर्वाङ्गानि च मे पातु सर्वावयवशोभितः ॥ १२॥
सङ्कटे विषमे दुर्गे भये पारे महाहवे ।
निशायां सन्ध्ययोः पातु हनुमान् सर्वतस्सदा ॥ १३॥
जलेह्यग्नौ स्थिते चैव वायुव्यञ्च गुहान्तरे ।
नद्यां शैले च विपिने दावाग्नौ चोर सङ्कटे ॥ १४॥
राजद्वारे सभास्थाने शत्रुद्वारे च कृत्रिमे ।
पातु श्रीरामदूतोऽसौ सदा मां भक्तवत्सलः ॥ १५॥
सर्पवृश्चिकलूतादि विषेभ्यः पातु मां सदा ।
स्थावरं जङ्गमं चैव कृत्रिमांश्च हरीश्वरः ॥ १६॥
नरवानरसिंहेभ तरुक्षु व्याघ्रभल्लुकात् ।
हिंस्राद्वनचराध्यक्षा द्रक्षो गन्धर्वकिन्नरात् ॥ १७॥
भूतप्रेतगणाश्चैव पिशाचब्रह्मराक्षसात् ।
वेतालदनुजात्पातु सीताशोकविनाशनः ॥ १८॥
दुःस्वप्नात्सलिलात्पातु दुष्कृताद्दुःख सङ्कुलात् ।
अज्ञानात्कर्मलोपाच्च पातु मां ब्रह्मपावनिः ॥ १९॥
परदारात्परद्रव्यात्परदान परिग्रहात् ।
परचिन्ता परध्यानं परव्याधि भयाच्च माम् ॥ २०॥
पातु प्रचण्ड दोर्दण्ड आञ्जनेयो महाबलः ।
कर्मलोपात्क्रियालोपाद्बुद्धिजाड्याच्च चंचलात् ॥ २१॥
आयुधात्कन्दनादस्त्रात्कारागाराच्च शृङ्खलात् ।
ताडना दौषधान्मन्त्रात्पातु मां ब्रह्मपावनिः ॥ २२॥

॥ अथ फलश्रुतिः ॥हनुमत्कवचं पुण्यं सर्वसिद्धिकरं परम् ।
मृतानाममृतत्त्वाय भीतानाञ्च अभीतये ॥ २३॥
मोक्षायञ्च मुमुक्षूणां श्रीकामानां श्रिये तथा ।
विजयाय जिगीषूणां व्याधितानामरोगकृत् ॥ २४॥
वश्याय वश्यकामानां विद्यायै वेदवादिनाम् ।
द्रविणाय दरिद्राणां पापानां पापशान्तये ॥ २५॥
वादिनां वादविजयं कवीनां कविताप्रदम् ।
अन्नाय क्षुधितार्तानां स्वर्गाय स्वर्गमिच्छताम् ॥ २६॥
पशुदं पशुकामानां पुत्रेभ्यः पुत्रकामिनाम् ।
दारेभ्यो कृतदाराणां ज्ञानाय ज्ञानमिच्छताम् ॥ २७॥
राज्याय भ्रष्टराज्यानां अशान्तानाञ्च शान्तये ।
अमृत्यवे मृत्युभियामायुष्यं चायुरिच्छताम् ॥ २८॥
शत्रुक्षये शत्रुमतामन्वर्थायच योगिनाम् ।
भर्तृवश्याय च स्त्रीणां स्त्रीवव्याय नृणामपि ॥ २९॥
राजवश्याय कवचं राजसन्निधिसेविनाम् ।
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ ३०॥
विनायको विसृष्टानां शान्तये भवति धृवम् ।
जप्तु स्त्रीवर्गसिध्यर्थं गृहस्थेन विशेषतः ॥ ३१॥
मुनिभिः मौनसिध्यर्थं मोक्षाय परमाय च ।
उद्यन्तं चण्ड किरणं उपस्थाय कृताञ्जलिः ॥ ३२॥
कदलीकानने तिष्ठन्नासिनो वा जपन् दिवा ।
सर्वान्कामानवाप्नोति अने नैव जपप्रिये ! ॥ ३३॥
मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् ।
ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ ३४॥
अङ्गमङ्गं यथा लिङ्गं कवचेन तु साधकः ॥ ३५॥
यस्या स्मृत प्रजायुक्ता तस्यामङ्गं प्रमार्जयेत् ।
सापुत्रं लभते दीर्घ जीविनं चाप्यरोगिणम् ॥ ३६॥
वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ।
सावै संवत्सरादर्वाग्गर्भधत्ते मनोहरम् ॥ ३७॥
पति विद्वेषिणीया तु तस्या अङ्गं प्रमार्जयेत् ।
सातमेव भजेत्प्रीत्या भर्तारं नान्यमान सा ॥ ३८॥
अश्वत्थे राजवश्यार्थी जलमग्नर्महदिच्छताम् ।
पालाशमूले विद्यार्थी तेजसेऽभिमुखेरवेः ॥ ३९॥
कन्यार्थी चण्डिकागेहे शिवगेहे रिपुक्षयम् ।
श्रीकामो विष्णुगेहे च मोक्षार्थी यत्रकुत्रच ।
किमत्र बहुनोक्तेन सर्वान्कामानवाप्नुयात् ॥ ४०॥
अन्यच्च कवचं वक्ष्ये शृणु शैलसुते ! प्रिये! ।
गुह्याद्गुह्यतमं लोके मङ्गलानाञ्च मङ्गलम् ॥ ४१॥

॥ अथ श्रीयन्त्र लक्षणम् ॥कवच प्रारम्भः
हनुमान् पातु मे नित्यं सिरवक्रोष्ठ नाशिकाः ।
कर्णो स्कन्धौ भुजौ वक्षौ रामेष्टः पातु कक्षकौ ॥ ४२॥
पृष्ठं च जठरं सर्वं स्तनौ जतृच हृत्कटिम् ।
हरिः पातूदरं नाभिं पर्श्व हस्ताङ्गुलीस्तथा ॥ ४३॥
जाठरं वह्निस्थानन्तु गण्डं जघन गुह्यकम् ।
पावनिः पातु मे नित्यमूरुयुग्मं सजानुकम् ॥ ४४॥
आञ्जनासूनु मे पातु जवे पादौच सर्वदा ।
यदुक्तं यच्च नोक्तं मे यद्वाह्ये यत्तदन्तरम् ॥ ४५॥
सर्वाङ्गं पातु मे शूरो लक्ष्मणप्राणदायकः ॥ ४६॥
य इदं कवचं दिव्यमाञ्जनेयस्य कामदम् ।
ध्यायेज्जपेद्भजेत्तस्य श्रीविद्यायुश्च वर्धते ॥ ४७॥
प्राचीष्वङ्गिर्लिखेद्रेखीदीचीषट् च तथाक्रमम् ।
सपञ्चविंशतिस्तत्र कोष्टानां तु भविष्यति ।
कोष्टे कोष्टे अयं मन्त्रो साक्षराणि यथाक्रमम् ॥ ४८॥

॥ अथ ग्रन्थान्तरे (यंत्र निर्माण विधि) ॥उदगग्रा लिखेद्रेखाः स्थानं मूलन्तु दक्षिणम् ।
प्रागग्राश्च लिखेद्रेखाः स्थानं मूलन्तु पश्चिमम् ॥ ४९॥
प्रागग्रा मुदगग्रञ्च समारभ्य लिखेद्बुधः ।
रेखापदेषुविलिखेत्कवचस्य पदं पदम् ॥ ५०॥
सौवर्णे रजते ताम्रे तालपर्णेऽपि वा मुने ।
भूर्जे रोचनया विद्वान् सोऽपि कुङ्कुम मिश्रया ॥ ५१॥
यस्तु यन्त्रमिदं मूर्ध्नि स्थितं कण्ठे तु धारयेत् ।
सङ्ग्रामे व्यवहारे च चोरव्याघ्रभयेषु च ।
मारीभये विषभये महाद्भुतप्रपीडने ॥ ५२॥
क्षयापस्मारपीडासु सर्पवृश्चिकलूतके ।
तापनेतु तथा शोके नेत्ररोगे च दुःसहे ॥ ५३॥
नानाविध भयेष्वे च नानाव्याधिप्रपीडने ।
विन्यस्य कवचं यस्तु मन्त्रराजेन मन्त्रितम् ॥ ५४॥
नतस्य दुरितं किञ्चिदिह चामुत्र चैवहि ।
वन्ध्यया धारयेद्यन्त्रमचिरात्पुत्रिणी भवेत् ॥ ५५॥
क्षुद्रसिध्यै ततोऽन्यस्यै यस्तु प्रार्थयतेऽल्पधीः ।
पिपासतो सविहितो मृगतृष्णां पिपासति ॥ ५६॥
वश्याकर्षण विद्वेष स्तम्भनोच्चाटनादिषु ।
कृत्वा तु कवचं न्यासं जपेनमन्त्रमनुत्तमम् ॥ ५७॥
तथैव सर्वमाप्नोति नात्रकार्या विचारणा ।
श्लोके श्लोके प्रकुर्वीत होमं तर्पणमेवच ॥ ५८॥
नवरात्रौ पठेद्विद्वानेकोत्तरविधानतः ।
मल्लिकाजाति पुष्पैश्च खजूरकदलीफलैः ॥ ५९॥
द्राक्षाफलेषु खण्डैर्वा होमं कुर्याद्विचक्षणः ।
बहुशो सिद्धिमाप्नोति फलमाप्नोत्य संशयः ॥ ६०॥
एवं कृत पुरश्चर्यो कुबेर सदृशोभवेत् ।
तर्पणे तर्पयामीति स्वाहान्तञ्च हुनेद्बुधः ॥ ६१॥
जयद्वन्द्वसमायुक्तं होमांते च तथोच्चरेत् ।

॥ इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे कवचयन्त्रप्रभावकथनं नाम अष्टसप्ततितमः पटलः सम्पूर्णम् ॥

इस कवच का विशिष्ट महत्व

यह कवचयन्त्रप्रभावकथनम् (Kavachayantraprabhavakathanam), जो पवित्र श्रीपराशर संहिता (Shri Parashara Samhita) से लिया गया है, भगवान हनुमान के कवच, स्तोत्र और यंत्र की महिमा का एक विस्तृत और गहन वर्णन है। यह संवाद भगवान शिव और पार्वती के बीच आरम्भ होता है, जिसे बाद में पराशर ऋषि मैत्रेय को लोक कल्याण के लिए सुनाते हैं। इस स्तोत्र की अद्वितीयता यह है कि यह केवल एक रक्षा कवच ही नहीं है, बल्कि यह यंत्र निर्माण की विधि और उसके धारण के विविध लाभों को भी विस्तार से बताता है। यह हनुमान जी (Lord Hanuman) को शिव का अंश, रामदूत, और भक्तों के सभी संकटों का नाश करने वाले महाबली के रूप में पूजता है।

कवच, स्तोत्र और यंत्र के विस्तृत लाभ (फलश्रुति)

इस पवित्र कथन की फलश्रुति अत्यंत व्यापक है, जो इसके पाठ और यंत्र-धारण के अनगिनत लाभों को दर्शाती है:

  • सर्व-संकट और सर्व-भय निवारण (Removal of All Dangers and Fears): यह कवच सभी प्रकार के भय, रोग, विष बाधाओं, चोर, व्याघ्र, और नानाविध पीड़ाओं से पूर्ण सुरक्षा (complete protection) प्रदान करता है।

  • सर्व-सिद्धि और समृद्धि प्रदायक (Bestower of All Siddhis and Prosperity): इसके पाठ और पुरश्चरण से साधक कुबेर के समान धनवान बन सकता है। यह दरिद्रों को धन, पशुओं की इच्छा रखने वालों को पशु और भूखों को अन्न प्रदान करता है।

  • संतान प्राप्ति और पारिवारिक सुख (Bestowal of Progeny and Family Happiness): वन्ध्या (बाँझ) स्त्री यदि इस यंत्र को धारण करे तो वह शीघ्र ही एक दीर्घायु और निरोगी पुत्र को जन्म देती है। यह पति-पत्नी के संबंधों को भी मधुर बनाता है।

  • ज्ञान, विद्या और विजय (Knowledge, Learning, and Victory): यह विद्यार्थियों को तेज और विद्या, वाद-विवाद करने वालों को विजय, और कवियों को कविता की शक्ति प्रदान करता है। संग्राम में, राजद्वार पर और सभी विवादों में यह विजय (victory) सुनिश्चित करता है।

  • रोगों का नाश (Destruction of Diseases): यह स्तोत्र ज्वर, कुष्ठ, क्षय (टी.बी.), अपस्मार (मिर्गी) जैसे गंभीर रोगों को नष्ट करता है। इसके अभिमंत्रित जल से मार्जन करने मात्र से रोग शांत होते हैं।

  • मोक्ष और दीर्घायु (Liberation and Long Life): मोक्ष की इच्छा रखने वालों को मोक्ष और आयु चाहने वालों को दीर्घायु और अमरत्व (long life and immortality) की प्राप्ति होती है।

पाठ और यंत्र-धारण की विधि

  • प्रातःकाल स्नान के बाद, स्वच्छ वस्त्र धारण कर, आसन पर बैठकर संध्यावंदन और गायत्री जप के बाद इस कवच का पाठ आरंभ करना चाहिए।

  • पाठ से पहले विनियोग, न्यास और भगवान हनुमान के दिव्य रूप का ध्यान करना अनिवार्य है।

  • नवरात्रि (Navaratri) में विशेष फलों (जैसे मल्लिका, खजूर, केला, द्राक्षा) से हवन करने का भी विधान है।

  • सर्वोत्तम फल के लिए, इसके यंत्र को सोने, चांदी, तांबे या भोजपत्र पर अष्टगंध से बनाकर मस्तक या कंठ में धारण करना चाहिए।