Logoपवित्र ग्रंथ

श्री महाकालभैरव सहस्रनाम स्तोत्रम्

श्री महाकालभैरव सहस्रनाम स्तोत्रम्
श्री देव्युवाच - यद्गुह्यं भगवन् व्याप्तं त्रिषुलोकेषु दुर्लभम् । कोटि ग्रन्थेषु गोप्यत्वात् सूचितं न प्रकाशितम् ॥ १॥ सर्वसम्पत्प्रदं देव सर्वापत्क्षयकारकम् । तदहं श्रोतुमिच्छामि भैरवस्य महात्मनः ॥ २॥ नाम्नां सहस्रं दिव्यानां सारतः सारयुद्धतम् । कृपया यद भूतेश यद्यहं प्राणवल्लभाः ॥ ३॥ श्री शिव उवाच - सूचितमेत्वयि स्नेहात् न प्रकाश्यं कुलेश्वरी । नाम्नां सहस्रकोटीनां मध्यात् सारसमुद्धतम् ॥ ४॥ न वक्तव्यं मया देवि चित्तस्थं मम सर्वदा । अप्रकाश्य मतो देवि प्राणेभ्योऽपि वरं प्रियम् ॥ ५॥ श्री दुर्वासा उवाच - इत्युक्तो भगवान् प्रीतो दध्यौ स्वात्मानमात्मना । पुलकाङ्कित सर्वाङ्गे च किञ्चदुवावह ॥ ६॥ श्री पार्वत्युवाच - देव देव महादेव भक्तानुग्रहकारक । नाम्नां सहस्रं दिव्यानां महाकालस्य मे वद ॥ ७॥ गोप्यं तु सर्वागोयानां वदमे परमेश्वर । अप्रकाश्य कुलेशान यद्यहं प्राणवल्लभाः ॥ ८॥ ईश्वर उवाच - देवेशि भक्त सुलभे देवनायक वन्दिते । भक्तानां कार्य सिद्धस्य निदानं ब्रूहीतत्त्वतः ॥ १॥ विनैव न्यास जालेन पूजनेन विना भवेत् । विना कायादि क्लेशेन वित्तव्ययं मिनेश्वरि ॥ २॥ देव्युवाच ॐ अस्य श्री महाकालभैरवसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मानन्द भैरव ऋषिः, त्रिष्टुप् छन्दः, महाकालभैरवो देवता, बं बीजम्, ह्रीं शक्तिः सर्वाभीष्टजा सिद्धये जपे विनियोगः । सहस्रनामानि । ॐ ह्रीं महाकालः कामदोनाथोऽनाथ प्रिय प्रभाकारः । भैरवो भीतिहा दर्पः कन्दर्पो मीन केतनः ॥ १॥ श्री शिव उवाच - श‍ृणुदेवि महागुह्यं रहस्यं परमाद्भुतम् । न कस्य चिन्मयारव्यातमद्यापि प्राणवल्लभे ॥ ९॥ सुखसम्पतप्रदे देवि धन धान्य जय प्रदम् । भूतग्रह विशानां स्मरणादेव नाशनम् ॥ १०॥ कृत्याद्रोहादि शमनं बालग्रह निवारणम् । चतुर्वर्ग चतुर्भद्र प्रदमेतं न संशयः ॥ ११॥ महाकालस्य नामानि प्रयुतान्यर्बुदानि च । सारात् सारतरं तेषां सहस्रं श‍ृणु यत्नतः ॥ १२॥ सुधासिन्धु मणि द्वीपे पारिजात वनावृते । प्रज्वलत्पितृ भूमध्ये प्रोतहृत्सुप्तमीश्वरम् ॥ १३॥ विपरीतरता शक्तं दक्षिणा विलसद्द्युतिम् । चतुर्बाहुं त्रिनयनमज्जनाद्रि समप्रभम् ॥ १४॥ जटाजूटधरं देव शशाङ्ककृत शेखरम् । भुजङ्गमेखलायुक्तं दिग्वाससमनाकुलम् ॥ १५॥ डमरुं च कपालं च वरं शूलं क्रमात् करैः । दधतं विकटदंष्ट्रं करालवदनं विभुम् ॥ १६॥ ध्यात्वैवं साधक श्रेष्ठो जपन्सिद्धिं समश्नुते ॥ १७॥ श्री दुर्वासा उवाच - नाम्नां सहस्रं दिव्यानां भैरवस्य महाकृतेः । वक्ष्यामि तत्त्वतः सम्यक्सर्वोपद्रवनाशनम् ॥ १८॥ सर्वपापहरं पुण्यं साधकानां सुखप्रदम् । आयुः पुष्टिः श्रीकरं च पुत्रपौत्रविवर्धनम् ॥ १९॥ भैरवस्तोत्रमन्त्रस्य महादेवो ऋषिस्मृतः । महाकालो भैरवश्च देवता परिकीर्तिताः ॥ २०॥ छन्दोऽनुष्टुप्सर्वकार्य सिद्ध्यर्थं साधकस्य तु । महाकालस्य तुष्ट्यर्थे विनियोगः प्रकीर्तितः ॥ २१॥ महादेवेन यत् प्रोक्तं पार्वत्यै सर्वमङ्गलम् । तच्छृणुष्वोपमन्यो मे कीर्त्यमानं सुमङ्गलम् ॥ २२॥ अथ माहात्म्यम् - सर्वशत्रुक्षयकरं सर्वापद्विनिवारणम् । सर्ववेदागमानां च सारात्सार समुद्धृतम् ॥ २३॥ देवदेवेन यत्प्रोक्तं हिमाचलसुतां प्रति । अत्याग्रहाति हीनाङ्गीं करुण्यात्प्रीत चेतसा ॥ २४॥ तदेवते प्रवक्ष्यामि गुरुभक्ताय साम्प्रतम् । अतियत्नान् मयाप्राप्तं दक्षिणा क्रमयोगतः ॥ २५॥ तत्तेऽहं सम्प्रवक्ष्यामि यच्छ्रुतं परमाद्भूतम् । कुलीनाय च शान्ताय भक्ताय भजुबुद्धये ॥ २६॥ धनप्राण प्रदात्रे च देवार्चातिरताय च । देवताभाव युक्ताय धर्मश्रद्धापराय च ॥ २७॥ वदान्यायातियोग्याय प्रवीणाय दयालवे । गोप्तेयमाज्ञप्तमिति देव्यापुरामम ॥ २८॥ अतस्तुभ्यं प्रवक्ष्यामि करुणाब्धेर्महात्मनः । महाकालस्य देवस्य मदोन्मत्तस्य शूलिनः ॥ २९॥ स्तोत्रं सहस्रनामाख्यं सहस्रगुण सम्पतम् । तस्यस्मरणमात्रेण श्रवणेन प्रयत्नत ॥ ३०॥ पठनात्पाठनाद्वाऽपि सर्वश्रेयस्करं परम् । यत्र स्थितमिदं स्तोत्रं तत्र श्रीः सर्वतोमुखी ॥ ३१॥ तत्र सर्वत्र विजयो भक्त्येव न संशयः । तत्र लोको वशेत्सर्वः सवासो भैरवस्यतु ॥ ३२॥ उपमन्यो बहुक्ते किं न वाच्यं यस्यकस्यचित् । गुरुसन्तोष्य यत्नेन पठितव्यं समाहितः ॥ ३३॥ ऐं ह्रीं क्लीं महाकालस्य ह्रीं ह्रीं फट् फट् फट् हूँ नमः स्वाहा ॥ ३४॥ अथ श्रीमहाकालभैरवसहस्रनामस्तोत्रम् । ॐ महाकालो महादेवो महाकायो महातपः । मत्तो महेश्वरो मौनी महादेवो महाप्रियः ॥ १॥ महायोगी महाकर्मा महाभूतो मृदोयमः । माया मनोमयो मान्यो महानीतिर्महागतिः ॥ २॥ मरुन्महर्षिमध्यस्थो महाव्याधो महाद्युतिः ॥ ३॥ महामतिर्महाभूतिर्महानीतिर्महाश्रयः ॥ ४॥ महान्महात्मा मूर्द्धन्यो मुनीन्द्रो मघवापतिः । मार्गज्ञो मार्गगो मार्गी मृगव्याधो मृगप्रियः ॥ ५॥ मृताधारो महामूर्ति महामायो महोत्कटः । महारुद्रो महागर्तो महानीतिर्महामतिः ॥ ६॥ मदो मोदो महामोदो महासत्त्वो महामतः । महौषधोर्महासिद्धिर्मरीचिर्महिमालयः ॥ ७॥ मङ्गलो मङ्गल्यो मायी मुण्डमाली मनोजवः । महापट्टर्महात्यागी महाकोशो महाबलः ॥ ८॥ महासनो महाकालो महागर्भो महाधनुः । महेष्वाशो महोभर्ता महावीरो महाभुजः ॥ ९॥ मेखली मधुरो मुण्डो मखकर्ता मखायहा । मातामहो मातरिश्वा मधुरो मधुर प्रियः ॥ १०॥ महोत्सवो महानेता मन्युमत्तो महोव्ययः । महोत्साहो महावर्तो मलयो मलनाशनः ॥ ११॥ मातृप्रियो मातृवर्ती मातुरो मारूता पतिः । मरुत्सखो मारिरिपुर्मारज्ञो मारभञ्जनः ॥ १२॥ मधुहा मधुमृन्मेध्यो मेध्यासी मखकृन्यतः । यमो यामो यमपतिर्यज्ञो यज्ञविवर्धनः ॥ १३॥ योगी यज्ञेश्वरो यज्वा यक्षेशो योगिनीपतिः । यायावरो यदुर्युक्तिकृत्युक्तिसाधनः ॥ १४॥ यति यति प्रियो युग्मो युगपद्यामिनी प्रियः । यज्ञभुक्यज्ञकृद्यज्ञो यदुनाथो यशः प्रदः ॥ १५॥ योगाङ्गो योग सारङ्गो योग्यो यक्षपतिः पतिः । योगाचार्यो योगगम्यो युग्मो युग्मचरो यशः ॥ १६॥ रुद्रो रत्नेश्वरो रौद्रो रोग रोगेश्वरो रुचिः । रम्यो रणप्रियो रुष्टो रोषहा रोषवर्धनः ॥ १७॥ रणश्रेष्ठो रथो रामो राट् रात्रिचरो रुचिः । रोगहा रोगकृद्रोगी रम्यो रस्यो रसप्रियः ॥ १८॥ रयो राजेश्वरो राजा राज राजो रमेश्वरः । रश्मिमाली रुचिधरो रोचनो रसदो रसी ॥ १९॥ रसप्रियो रसावासो राजीवनयनो रघुः । रक्षघ्नो राक्षसाहारो रुधिरौघ प्रियोरथः ॥ २०॥ रचिरो रुचिरावासो रुचिकृद्रुचिराङ्गदो । लम्बो लघुलोहिताक्षो लीलाब्धि ललितासखः ॥ २१॥ ललाटाक्षो लोककन्दो लक्ष्मीर्लक्ष्मीपतिर्लताः । लीलाविलासी लोलाङ्गो लोलाक्षो लोकवर्द्धनः ॥ २२॥ लोकबन्धु लोकनाथो लक्ष्मणो लक्ष्मणप्रियः । लोकमाया लोलजिह्वो ललितो लोललक्षणः ॥ २३॥ लावण्य ललितो लास्यप्रियो लीलाविभूषणः । लुब्धो लम्बोदरो लोक्यो लोकस्वामी लसन्यतिः ॥ २४॥ वैद्यो वरीयान्वरदो विद्वान्विद्याविशारदः । विश्वामरेश्वरो विश्ववन्द्यो वेदवपुर्विभुः ॥ २५॥ विश्वनाथो विश्वमूर्तिर्विश्वकृद्विश्ववर्धनः । विश्वाधारो विश्वगम्यो विश्वभुग्विश्वसाधनः ॥ २६॥ विरूपाक्षो विश्वरूपो वागीशो वृषभध्वजः । वेदान्तवेद्यो विद्येशो वेदाङ्गो वेदविद्विभुः ॥ २७॥ विबुधो विजयो वर्णी वर्णाश्रम गुरुर्वसुः । विश्वकर्मा व सुमना व्यालभृद्विद्रुमच्छविः ॥ २८॥ विशिष्टो विजयोवादी विश्वकर्मा वृषाकपिः । वेद्यवैद्यो वेदवपुः वामदेवो विमोचकः ॥ २९॥ विश्वाख्यो विश्वसृग्व्यासो विजितात्मा व्यपोवसी । वीरभद्रो वीरसेनो वीरासन विधिविधः ॥ ३०॥ व्यवसायो व्यवस्थानो वीरचूडामणिविराट् । विश्वदेहो बली बल्यो विरामो वसुदोवरः ॥ ३१॥ विद्वत्तमो वररुचिर्वेद्यो वाचस्पतिर्वपुः । विरोचनो वीतभयो विशुद्धो विमलोदयः ॥ ३२॥ वैवस्वतो विश्वगोप्ता विभूतिर्विगतज्वरः । वशिष्ठो विश्वहा विश्वो विश्वकर्ता वसोःपतिः ॥ ३३॥ विश्वामित्रो विश्वसाहो वीरोत्पूर्तिर्विदारणः । विश्वावासो वज्रहस्तो वज्ररूपो वसुश्रवाः ॥ ३४॥ विरूपो विकृतो वेगी विपाको विश्वकारकः । वीरोत्पत्तिर्वरसखो व्यक्ता व्यक्तो विशाम्पतिः ॥ ३५॥ विरूपो विकृतो वाग्मी विरञ्चिर्विष्टरश्रवाः । विचक्षणो विश्वगर्भो विबुधाग्रकरो विराट् ॥ ३६॥ विचक्षणो विलोमाक्षो विरूपाक्षो वृकोदरः । वसन्तो वित्तदो वित्तवृषदो विक्रमोत्तमः ॥ ३७॥ वृषदो विक्रमो वेद्यो वैद्यो विश्वविभूषणः । विषमस्थो विविक्तस्थो विविक्तो विश्वभावनः ॥ ३८॥ विद्याराशिवशिष्ठज्ञो विश्वनाथो विपात्क्रियः । श्रृङ्गीसर्वशिवः शम्भुः श्रीकण्ठः श्रीनिधिः शमः ॥ ३९॥ शमनः शोभनः शूली शूलशान्तः शिवशङ्करः । शङ्करः शोभनः शुद्धः शुद्धाख्यः शुद्धविग्रहः ॥ ४०॥ शाखी शङ्खः शनिः श्रीदः श्रीगर्भः शरणप्रियः । श्रव्यः शरण्यः शान्तात्मा श्रुतिगीः श्रुतिवत्सलः ॥ ४१॥ श्रुतिप्रियः श्रुतिगतिः श्रुतिज्ञः श्रुतिमान्श्रुतः । षङ्ग षड्गणः षष्ठः षडङ्गः षणमुखवल्लभः ॥ ४२॥ सहस्रार्चिः सप्तजिह्वः सहस्राक्षः सहस्रपात् । सामवेदः सोमरतः सामवृत्तः सनातनः ॥ ४३॥ सदाशिवः सनातसर्वः सम्भाष्यः स्वाश्रमः सहः । सुवर्णः सर्वलोकेशः सूर्य सर्वेश्वरः सुहृत् ॥ ४४॥ स्वस्तिभुक् सुग्रहः स्वस्तिः स्वस्तिकः स्वस्तिभूः सुधाः । सम्भाव्यः सम्भवः सत्त्वः सत्यज्ञः सत्यसङ्गरः ॥ ४५॥ सर्वावासः सुराधीशः सन्तोषः सम्प्रतः सहः । सर्वादिसिद्धिदः सिद्धः सुवीरः सर्वलोकधृक् ॥ ४६॥ संसारचक्रकृत्सारः संसारः सर्वसाधनः । सुशरण्यः सुरगणः सुब्रह्मण्यः सुधानिधिः ॥ ४७॥ संराट्सुखेन सर्वाशी स्वाधिष्ठानं सताङ्गतिः । संवत्सरः सर्वहारी सङ्ग्रामः सागरप्रियः ॥ ४८॥ समर्थः सर्वदिक्स्वस्थः सर्वावासः सुरारिहा । सुवृद्धात्मा सुप्रतीकः समृष्टः सप्ततिः समः ॥ ४९॥ सद्योगी सुगतः स्रग्वी सारथिः सदसन्मयः । सर्वदेवमयः सोमः सर्वशास्त्रप्रभञ्जनः ॥ ५०॥ सुखानिलः सुप्रपन्नः सहस्रसुखनाशिकः । सर्वदेवोत्तमः सेतुः सर्वभूत महेश्वरः ॥ ५१॥ सकुमारः सुराध्यक्षः सुराभीष्टः सुलोचनः । सामगानप्रियः सामः सामगः सत्यसङ्गरः ॥ ५२॥ सर्वावासः सुतस्रष्टा सत्यव्रत परायणः । स्वर्गतः सकलः स्वर्गः सर्वस्वनमयः स्वनः ॥ ५३॥ सर्वाधारः सुराहारः सुरातृप्तः सुरामयः । सुराधारः सुरापूज्यः सुरहेतुः सुराङ्करः ॥ ५४॥ सदानन्दः सुप्रकाशः सरसः सारसप्रियः । स्तोत्रं स्तवप्रिय स्तोता सुनिष्ठः सुरतप्रियः ॥ ५५॥ सुरतासन सन्तुष्टः सुरताधार तत्परः । सुरतप्रवणः सूर्यः सूर्यमण्डलमध्यगः ॥ ५६॥ साधुः साधुप्रियः साध्वीपतिः साधनसाधितः । सम्भूतिः सागरगतिः साङ्गः सन्तानदः सखा ॥ ५७॥ सायकः सङ्गीतकरः समरः समरप्रियः । सप्तजिह्वः सहस्रार्ची सप्तार्चिः सप्तवाहनः ॥ ५८॥ सात्विकः सर्वजित्सत्यः सर्वसंसार सारथिः । सप्ताचलमुनीशानः सृष्टि स्रष्टा स्तवप्रियः ॥ ५९॥ स्थूल सूक्ष्मः सदादृष्टि सहस्रार्कप्रकाशकः । सहस्रदंष्ट्रः सन्धाता सारमेयानुगः स्वभूः ॥ ६०॥ संवृत्तः संवृतः सौरिः सदातुष्टः सदोद्धतः । हर्षणो ह्रेषणो हर्षी हरो हंसो हरिप्रियः ॥ ६१॥ हयमांसप्रियो हृष्टो हृषीकेशो हयाकृतिः । हेतुप्रियो हेतुगम्यो हेतुर्हेमप्रियोहविः ॥ ६२॥ हालाहलधरो हारी हनूमान् हाटकेश्वरः । हठी हठप्रियो हुण्डो हुण्डमांसाशनप्रियः ॥ ६३॥ हालापानरतो हन्ता हस्तिमांसासनो हुतः । ह्रेषी ह्रेषणकृद्धस्ती हन्ता हस्तिपको हली ॥ ६४॥ ह्रीं पतिः ह्रीं निधिः ह्रीं ईशो ह्रीं सखो ह्रीं निषेवितः । हौङ्कार क्षत्रपः क्षत्री क्षेत्रज्ञः क्षेत्रदः क्षमी ॥ ६५॥ क्षोणाधारः क्षेमनाथः क्षयः क्षोणीधराश्रयः । क्षपानाथधरः क्षत्ताः क्षणदेशः क्षपाकरः ॥ ६६॥ क्षत्रियः क्षत्रियाधीशः क्षामः क्षैमः क्षयङ्करः । क्षत्रियः क्षयत्कुलहारः क्षयकृत्क्षयवल्लभः ॥ ६७॥ अनन्तोऽनन्तगमनोऽनन्ताक्षोऽनन्तशासनः । अनादिरतुलोचिन्त्यो अव्ययोव्ययवर्जितः ॥ ६८॥ अवधूतोवटस्थानी अनन्तोद्भुतविक्रमः । आनन्द आत्मवानाद्य आदित्याद्येश्वरेश्वरः ॥ ६९॥ अनेकरूपोऽनन्तश्रीरादिदेवोरमेश्वरः । अर्यप्रियोऽक्षयोऽक्षीणः आशावाधार आदिमः ॥ ७०॥ ईश्वरो वसी ईशः इन्दुरिन्द्रः इलापतिः । उग्र उग्रो उग्र उच्च उच्च उच्चश्श्रवा उदक् ॥ ७१॥ ऊर्ध्वपादुत्तमगतिः ऊर्ध्वगोर्ध्वगतिर्गतिः । उद्यानवासीसुरसः करोरुर्दृढजनप्रियः ॥ ७२॥ कुलप्रियः कुलधरः कुलाधारः कुलेश्वरः । कुलाचारकरः कार्य कुलाचार प्रवर्तकः ॥ ७३॥ कौलव्रतधरः कूर्मः कामी केलिप्रियः क्रतुः । कलाधरः कण्ठकालः कूटस्थः कोटराश्रयः ॥ ७४॥ करुणः करुणावासः करुणामृतवारिधिः । कृतीकृतज्ञः कृत्यावान्कौतुकी कालिकापतिः ॥ ७५॥ करिचर्मधरः कर्मी कारुण्यं करुणाकरः । कृष्णः कृष्णप्रियः कृष्णाराध्यः कृष्णकुलान्तकः ॥ ७६॥ कूटस्थः कूटकावासः कर्मठः कर्मठप्रियः । कठिनः कोमलः कर्णकण्ठवासाः कुलेश्वरः ॥ ७७॥ करालमालीकालज्ञः कृतकौतुकमङ्गलः । कन्याकुलपतिः कन्यानाथः कन्याकुलाश्रयः ७८॥ खड्गी खड्गधर खञ्ज खमतिः खगतिः खगः । खलघ्नः खलयः ख्यातः ख्यातिमान् खेचरीप्रियः ॥ ७९॥ गणौ गौरीपतिर्गीता गोत्रेशो गौतमप्रियः । गणौ गणेश्वरो गण्यो गुणीज्ञानप्रियोगतिः ॥ ८०॥ गानगम्यो गदी गौरी गिरीशो गौरेवेश्वरः । गालवोगर्तसदनो गन्धर्वो गन्धवल्लभः ॥ ८१॥ गन्धर्वाधिपतिर्गेयगीष्पतिर्गरुडध्वजः । गोपतिगोसवो गोप्ता गायत्रीगणतत्परः ॥ ८२॥ गोप्रचारो गणधरो गणेशो गणवल्लभः । गद्यप्रियो गद्यगम्यो गुरुगम्यो गुरोदरः ॥ ८३॥ गूढकर्मा गूढधर्मा गुप्तो गुप्तमतप्रियः । गङ्गाधरो गवाङ्गोप्ता गोसवो गोरसेश्वरः ॥ ८४॥ घण्टानादप्रियो धर्मः घण्टायानिर्घटोदरः । घटाधारो घटावासो घननादेन गर्जितः ॥ ८५॥ अङ्गदो गन्धरो योगी पिङ्गाक्षः श्रृङ्खलाधरः । चण्डी चण्डप्रियश्चित्तश्चौरश्चोरपतीश्वरः ॥ ८६॥ चारुवेगश्चारुगतिश्चार्वङ्गश्चारुभूषणः । चर्मवासीश्चन्द्रचूडः चिन्ताघ्नश्चिन्तितप्रदः ॥ ८७॥ चिन्तामणिश्चित्रगतिश्चिरायुश्चण्डिकासखः । चितावासी छिन्नरूपः छलज्ञश्छलनिग्रहः ॥ ८८॥ छादनश्छन्दनश्छन्दः छन्दचारी छलप्रियः । छागमांसप्रियश्छागश्छिन्नारिश्छिन्नबन्धनः ॥ ८९॥ छेदश्छेदकरश्छेदी छद्मेशश्छद्मवल्लभः । छादनश्छद्मनश्छन्दः छन्दोवृत्तिविशारदः ॥ ९०॥ जयाजयन्तो जयकृज्जयदो जयवर्द्धनः । जयासखो जयप्रेप्सुर्जितकाशी जितेन्द्रियः ॥ ९१॥ जृम्भारि जृम्भनो जृम्भी जीवातुर जीवनप्रदः । जलधिर्जलधो ज्ञानो जितोजीनो जगत्पतिः ॥ ९२॥ जातुकर्णो जटाधारी जन्ममृत्यु जरातिगः । ज्यायान्जिष्णुर्जितोरातिः जीवाजीवो जलोदरः ॥ ९३॥ जोषी जायप्रदो जोषो जोषजो जोषवर्धनः । ज्ञातकरो गर्गसे गङ्गा टङ्काष्टङ्करोटनः ॥ ९४॥ टीका टीकाकरस्थायी ठसरूपो ठयाश्रयः । डिनप्रियो डाकिनीशो डामरो डमरूप्रियः ॥ ९५॥ ढुन्ढि ढैकनकृतढङ्क ढारोसुण्डोण्डजाशानः । तरुणस्तरुणीनाथः तीर्थस्तीर्थाश्रयोमयान् ॥ ९६॥ तीर्थज्ञः तीर्थकृत्तीर्था तीर्थदस्तीर्थवल्लभः । तीर्थतृप्तिः तीर्थहृष्टः तमोनाशस्तमाश्रयः ॥ ९७॥ तोयदस्तपनस्तायीस्तृप्तालीरतिप्रियः । तारस्तेजोनिधिः स्तोत्र स्तोमरस्तोमरार्चितः ॥ ९८॥ तीर्थगण्डो ददो हप्त दुधरो दारुणाकृतिः । दुर्गो दुर्गप्रियो दीप्तो दुर्गहा दुर्ग रक्षकः ॥ ९९॥ देवदेवो देवपूज्यो देवेन्द्रो दूरदर्शनः । दोषज्ञो दोषदो दीनप्रियो दण्डीश्वरो दमः ॥ १००॥ दयालुर्दम्भदमनो देवपूज्यो दमव्रतः । धर्मप्रियो धनाध्यक्षो धनदो धान्यभृक्धनी ॥ १०१॥ धीरो धीराधारो धाराधरो धेयो धुरन्दरः । धृति धैर्यध्वजी धाता नयो नेता नमस्कृतः ॥ १०२॥ नारायणसखो न्यासो नीतिमान्नीतिवर्धनः । नृसिंहदर्पदमनो निर्द्वन्द्वो निरुपद्रवः ॥ १०३॥ नागरूपो नागधरो नरो नरकजिन्नृपः । नारीसखो नादगम्यो नादोनादविवर्धनः ॥ १०४॥ नायको नारदो नप्ता नैर्ऋतो नाट्यनायकः । नदीशयो नदीनाथो नन्दनो नन्दिवल्लभः ॥ १०५॥ नर्मदावाससन्तृप्तो नर्मज्ञो नूतनो नवः । पद्यः पातालनिलयः पूरनः प्रेतवाहनः ॥ १०६॥ प्रेतासनगतः प्रेत प्रेतभुक्पवनाशनः । पीनसर्पो पीनगतिः पण्डितः पल्लवायणः ॥ १०७॥ पुराणः पुण्यगमनः पुण्यवास परायणः । पदातिः परमप्रीतः प्रयोक्ता प्रणवः प्रभुः ॥ १०८॥ प्रत्ययः पानपः पाता पुरुषः पुरुषेश्वरः । पर्जन्यः पार्वतीनाथः पशुनाथः प्रजापतिः ॥ १०९॥ फेत्कारः भैरवीनाथः फूत्कारः फलदः फलः । फेनपः फणिभृद्धेतु बटुबालो बलाश्रयः ॥ ११०॥ ब्रह्माण्डभेदनो ब्रह्मा ब्रह्मभुक्ब्रह्मवर्धनः । ब्रह्मण्यो ब्रह्मणो ब्रह्मो ब्रह्मभुग्ब्रह्मसहरिः ॥ १११॥ बन्धघ्नो बन्धहा बीजं बहुकृद्बहुभुग्बली । विप्रप्रियो विप्रसखो विप्रेशो वित्तयो वसुः ॥ ११२॥ भगो भर्गो भृगुर्भङ्गी भव्यो भीमो भयङ्करः । भङ्गास्वादो भूतनाथो भालाक्षो भूतिभूषणः ॥ ११३॥ भद्रेश्वरो भद्रगतिर्भानुर्भद्रध्वजो भवः । भगप्रियो भगवासो भगभूर्भगयोषणः ॥ ११४॥ फलश्रुतिः - इति नाम्ना दशशतं महाकालस्य सद्गुणम् । पुत्रारोग्यधनं प्रीतिप्रदं विजयवर्धनम् ॥ ११५॥ सर्वदुष्टप्रशमनं सर्वव्याधिविनाशनम् । एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥ ११६॥ यः पठेन्नियतः शुद्धः सर्वान्कामानवाप्नुयात् । पूजान्ते चापिहोमान्ते जयान्ते च पठेदिदम् ॥ ११७॥ पुरश्चरणमेतस्य शतावृतिरिहोच्यते । महाकाल समोभूत्वा योजयेन्निशि निर्भयः ॥ ११८॥ यशः कामानवाप्नोति मानसान्नात्र संशयः । निशायां भूमिकामश्चषण्मांसान्यो जपेत्सुधीः ॥ ११९॥ प्रतिकृत्या विनाशाय जपेदेतत्क्षण त्रयम् । मासत्रयं जपत्रित्य निशि निश्चलधीः स्वयम् ॥ १२०॥ पुत्रान्धन तथा दारान्प्राप्नोत्यत्र न संशयः । कारागृहहेतु निगडेर्बद्धः कपाटैर्द्दृढः ॥ १२१॥ पठेन्निदं दिवंरात्रं सर्वान्कामानवाप्नुयात् । यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ १२२॥

श्री महाकालभैरव सहस्रनाम स्तोत्रम् का महत्व (Significance)

यह सहस्रनाम स्तोत्रम् (Thousand Names Hymn) शैव और तांत्रिक परंपराओं में अत्यंत गुह्यतम (Most Secret) माना जाता है। जैसा कि देवी स्वयं कहती हैं, यह 'कोटि ग्रन्थेषु गोप्यत्वात्' (Hidden in millions of texts) है और त्रिषुलोकेषु दुर्लभम् (Rare in the three worlds) है। भगवान शिव ने इसे अत्यंत स्नेहवश ही देवी को प्रकट किया था, यह दर्शाते हुए कि यह केवल योग्य और प्रिय साधकों के लिए ही है। इस स्तोत्र का मुख्य उद्देश्य सर्वसम्पत्प्रदं (Giver of All Wealth) और सर्वापत्क्षयकारकम् (Destroyer of All Calamities) होना है। यह केवल भौतिक लाभ ही नहीं देता, बल्कि साधक को महाकाल (Great Time/Death) के भय से मुक्त कर सिद्धि (Spiritual Attainment) प्रदान करता है।

स्तोत्र की उत्पत्ति और संवाद (Origin and Dialogue Structure)

इस सहस्रनाम (Sahasranama) की संरचना एक जटिल संवाद पर आधारित है, जो इसकी प्रामाणिकता और गहनता को दर्शाता है। यह स्तोत्र मुख्य रूप से श्री शिव उवाच (Shri Shiva Uvacha) और श्री देव्युवाच (Shri Devi Uvacha) के बीच है, जहाँ देवी इसकी गोपनीयता के बावजूद इसे जानने की इच्छा व्यक्त करती हैं। महत्वपूर्ण रूप से, इसमें श्री दुर्वासा उवाच (Shri Durvasa Uvacha) और श्री पार्वत्युवाच (Shri Parvati Uvacha) के खंड भी शामिल हैं। दुर्वासा ऋषि, जो अपनी तीव्र तपस्या और क्रोधी स्वभाव के लिए जाने जाते हैं, इस स्तोत्र के माहात्म्य का वर्णन करते हैं, यह बताते हुए कि यह सर्वोपद्रवनाशनम् (Destroyer of All Calamities) है। यह बहु-स्तरीय संवाद दर्शाता है कि यह ज्ञान विभिन्न युगों और ऋषियों के माध्यम से प्रसारित हुआ है।

महाकाल भैरव का ध्यान स्वरूप (The Meditation Form - Dhyana)

स्तोत्र के पाठ से पूर्व महाकालभैरव (Mahakalabhairava) के ध्यानम् (Meditation Form) का वर्णन अत्यंत शक्तिशाली है। उन्हें अञ्जनाद्रि समप्रभम् (Shining like a mountain of collyrium/black mountain) बताया गया है, जो काल या मृत्यु के गहरे रंग का प्रतीक है। उनका स्वरूप विकटदंष्ट्रं (Fierce Teeth) और करालवदनं (Terrifying Face) है।
  • शारीरिक विशेषताएँ: वे चतुर्बाहुं (Four-armed) और त्रिनयनम् (Three-eyed) हैं, जटाजूट धारण किए हुए हैं और उनके मस्तक पर शशाङ्ककृत शेखरम् (Crescent Moon) सुशोभित है।
  • आभूषण और वस्त्र: वे भुजङ्गमेखलायुक्तं (Adorned with a serpent belt) हैं और दिग्वाससम् (Sky-clad/Naked) हैं, जो उनकी पूर्ण वैराग्य और ब्रह्मांडीय प्रकृति को दर्शाता है।
  • आयुध: वे अपने हाथों में डमरुं (Drum), कपालं (Skull-cup), वरं (Boon gesture), और शूलं (Trident) धारण करते हैं।
इस ध्यान (Dhyana) के माध्यम से साधक महाकाल (Mahakala) की विनाशक और पालक दोनों शक्तियों के साथ एकाकार होने का प्रयास करता है।

गहन अर्थ और दार्शनिक आधार (Deep Meaning and Philosophical Basis)

महाकालभैरव (Mahakalabhairava) का नाम ही गहन दार्शनिक अर्थ रखता है। 'महाकाल' समय की उस सर्वोच्च अवस्था को दर्शाता है जो सभी सृजन और विनाश से परे है। भैरव, शिव का उग्र रूप, वह शक्ति है जो अज्ञानता और भय का नाश करती है। यह सहस्रनाम (Sahasranama) केवल 1000 नामों का संग्रह नहीं है, बल्कि यह महाकाल (Mahakala) के 1000 ब्रह्मांडीय कार्यों और गुणों का सार है। शिव इसे नाम्नां सहस्रकोटीनां मध्यात् सारसमुद्धतम् (The essence extracted from billions of names) बताते हैं। यह पाठ साधक को यह समझने में मदद करता है कि काल (Time) ही अंतिम सत्य है, और भैरव (Bhairava) उस सत्य के अधिष्ठाता हैं। यह तंत्र साधना (Tantric Practice) का एक महत्वपूर्ण अंग है जो साधक को तत्वतः (Essentially) मुक्ति की ओर ले जाता है।

स्तोत्र पाठ के विशिष्ट लाभ (Specific Benefits of Recitation)

इस स्तोत्र के पाठ से प्राप्त होने वाले लाभ बहुआयामी हैं, जो भौतिक और आध्यात्मिक दोनों क्षेत्रों को कवर करते हैं। शिव स्वयं इन लाभों की पुष्टि करते हैं:
  • सुरक्षा और नाश: यह भूतग्रह विशानां नाशनम् (Destruction of ghosts, planets, and poisons) करता है। यह कृत्याद्रोहादि शमनं (Pacification of black magic and enmity) और बालग्रह निवारणम् (Prevention of afflictions to children) में अत्यंत प्रभावी है।
  • समृद्धि: यह सुखसम्पतप्रदे (Giver of Happiness and Wealth), धन धान्य जय प्रदम् (Giver of Wealth, Grain, and Victory) है, तथा आयुः पुष्टिः श्रीकरं (Giver of Longevity, Nourishment, and Prosperity) है।
  • जीवन लक्ष्य: यह चतुर्वर्ग चतुर्भद्र प्रदमेतं (Giver of the Four Goals of Life - Dharma, Artha, Kama, Moksha) है, जिससे जीवन के सभी क्षेत्रों में सफलता मिलती है।
  • पाप मुक्ति: दुर्वासा ऋषि के अनुसार, यह सर्वपापहरं पुण्यं (Meritorious and Destroyer of all sins) है।

स्तोत्र पाठ करने की विधि (Method of Recitation)

इस सहस्रनाम (Sahasranama) का पाठ तांत्रिक विधि के अनुसार किया जाता है, जैसा कि देव्युवाच (Devi Uvacha) खंड में विनियोग (Application) मंत्र से स्पष्ट होता है।
  • विनियोग और न्यास: सर्वप्रथम विनियोग (Application) किया जाता है, जिसमें ब्रह्मानन्द भैरव ऋषिः (Brahmananda Bhairava Rishi), त्रिष्टुप् छन्दः (Trishtup Meter), और महाकालभैरवो देवता (Mahakalabhairava Deity) का उल्लेख होता है। इसके बाद बं बीजम् (Bam Bija) और ह्रीं शक्तिः (Hrim Shakti) के साथ सर्वाभीष्टजा सिद्धये जपे विनियोगः (Application for the attainment of all desired Siddhis) किया जाता है।
  • ध्यान: पाठ शुरू करने से पहले, ऊपर वर्णित महाकालभैरव (Mahakalabhairava) के उग्र और तेजस्वी रूप का ध्यान (Meditation) करना अनिवार्य है।
  • जप: साधक को पूर्ण एकाग्रता (Concentration) और श्रद्धा (Faith) के साथ 1000 नामों का जप करना चाहिए। शिव कहते हैं कि जो साधक इस प्रकार ध्यात्वैवं (Meditating thus) जप करता है, वह निश्चित रूप से सिद्धिं समश्नुते (Attains Siddhi).