Logoपवित्र ग्रंथ

श्रीबटुकभैरव सहस्रनाम स्तोत्रम् (दुर्वासा ऋषि कृत)

श्रीबटुकभैरव सहस्रनाम स्तोत्रम् (दुर्वासा ऋषि कृत)
विनियोगः
ॐ अस्य श्रीबटुकभैरवसहस्रनामात्मक स्तोत्रस्य श्रीदुर्वासा ऋषिः । अनुष्टुप्छन्दः । श्रीबटुकभैरवो देवता । मम
सर्वकार्यसिद्ध्यर्थ सर्वशत्रुनिवारणार्थ श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगः ।

ऋष्यादिन्यासः
श्रीदुर्वासा ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीबटुकभैरवो देवतायै नमः हृदि । मम सर्वकार्यसिद्ध्यर्थ
सर्वशत्रुनिवारणार्थं श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगाय नमः सर्वाङ्गे ।

॥ स्तोत्रम् ॥
ॐ नमो भैरवरूपाय भैरवाय नमो नमः ।
नमो भद्रस्वरूपाय जयदाय नमो नमः ॥ १॥
नमः कल्पस्वरूपाय विकल्पाय नमो नमः ।
नमः शुद्धस्वरूपाय सुप्रकाशाय ते नमः ॥ २॥
नमः कङ्कालरूपाय कालरूप नमोऽस्तुते ।
नमस्त्र्यम्बकरूपाय महाकालाय ते नमो नमः ॥ ३॥
नमः संसारसाराय सारदाय नमो नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४॥
नमः क्षेत्रनिवासाय क्षेत्रपालाय ते नमः ।
क्षेत्राक्षेत्रस्वरूपाय क्षेत्रकर्त्रे नमो नमः ॥ ५॥
नमो नागविनाशाय भैरवाय नमः ।
नमो मातङ्गरूपाय भाररूप नमोऽस्तु ते ॥ ६॥
नमः सिद्धस्वरूपाय सिद्धिदाय नमो नमः ।
नमः बिन्दुस्वरूपाय बिन्दुसिन्धुप्रकाशिने ॥ ७॥
नमः मङ्गलरूपाय मङ्गलाय नमो नमः ।
नमः सङ्कटनाशाय शङ्कराय नमो नमः ॥ ८॥
नमो धर्मस्वरूपाय धर्मदाय नमो नमः ।
नमोऽनन्तस्वरूपाय एकरूप नमोऽस्तु ते ॥ ९॥
नमो वृद्धिस्वरूपाय वृद्धिकामिन्नमोऽस्तुते ।
नमो मोहनरूपाय मोक्षरूपाय ते नमः ॥ १०॥
नमो जलदरूपाय सामरूप नमोऽस्तु ते ।
नमः स्थूलस्वरूपाय शुद्धरूपाय ते नमः ॥ ११॥
नमो नीलस्वरूपाय रङ्गरूपाय ते नमः ।
नमो मण्डलरूपाय मण्डलाय नमो नमः ॥ १२॥
नमो रुद्रस्वरूपाय रुद्रनाथाय ते नमः ।
नमो ब्रह्मस्वरूपाय ब्रह्मवक्त्रे नमो नमः ॥ १३॥
नमस्त्रिशूलधाराय धाराधारिन्नमोऽस्तुते ।
नमः संसारबीजाय विरूपाय नमो नमः ॥ १४॥
नमो विमलरूपाय भैरवाय नमो नमः ।
नमो जङ्गमरूपाय जलजाय नमो नमः ॥ १५॥
नमः कालस्वरूपाय कालरुद्राय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १६॥
नमः शत्रुविनाशाय भीषणाय नमो नमः ।
नमः शान्ताय दान्ताय भ्रमरूपिन्नमोऽस्तु ते ॥ १७॥
नमो न्यायगम्याय योगिध्येयाय ते नमः ।
नमः कमलकान्ताय कालवृद्धाय ते नमः ॥ १८॥
नमो ज्योतिःस्वरूपाय सुप्रकाशाय ते नमः ।
नमः कल्पस्वरूपाय भैरवाय नमो नमः ॥ १९॥
नमो जयस्वरूपाय जगज्जाड्यनिवारणे ।
महाभूताय भूताय भूतानां पतये नमः ॥ २०॥
नमो नन्दाय वृन्दाय वादिने ब्रह्मवादिने ।
नमो वादस्वरूपाय न्यायगम्याय ते नमः ॥ २१॥
नमो भवस्वरूपाय मायानिर्माणरूपिणे ।
विश्ववन्द्याय वन्द्याय नमो विश्वम्भराय ते ॥ २२॥
नमो नेत्रस्वरूपाय नेत्ररूपिन्नमोऽस्तु ते ।
नमो वरुणरूपाय भैरवाय नमो नमः ॥ २३॥
नमो यमस्वरूपाय वृद्धरूपाय ते नमः ।
नमः कुबेररूपाय कालनाथाय ते नमः ॥ २४॥
नमः ईशानरूपाय अग्निरूपाय ते नमः ।
नमः वायुस्वरूपाय विश्वरूपाय ते नमः ॥ २५॥
नमः प्राणस्वरूपाय प्राणाधिपतये नमः ।
नमः संहाररूपाय पालकाय नमो नमः ॥ २६॥
नमश्चन्द्रस्वरूपाय चण्डरूपाय ते नमः ।
नमो मन्दरवासाय वासिने सर्वयोगिनाम् ॥ २७॥
योगिगम्याय योग्याय योगिनां पतये नमः ।
नमो जङ्गमवासाय वामदेवाय ते नमः ॥ २८॥
नमः शत्रुविनाशाय नीलकण्ठाय ते नमः ।
नमो भक्तिविनोदाय दुर्भगाय नमो नमः ॥ २९॥
नमो मान्यस्वरूपाय मानदाय नमो नमः ।
नमो भूतिविभूषाय भूषिताय नमो नमः ॥ ३०॥
नमो रजःस्वरूपाय सात्त्विकाय नमो नमः ।
नमस्तामसरूपाय तारणाय नमो नमः ॥ ३१॥
नमो गङ्गाविनोदाय जयसन्धारिणे नमः ।
नमो भैरवरूपाय भयदाय नमो नमः ॥ ३२॥
नमः सङ्ग्रामरूपाय सङ्ग्रामजयदायिने ।
सङ्ग्रामसाररूपाय पावनाय नमो नमः ॥ ३३॥
नमो वृद्धिस्वरूपाय वृद्धिदाय नमो नमः ।
नमस्त्रिशूलहस्ताय शूलसंहारिणे नमः ॥ ३४॥
नमो द्वन्द्वस्वरूपाय रूपदाय नमो नमः ।
नमः शत्रुविनाशाय शत्रुबुद्धिविनाशने ॥ ३५॥
महाकालाय कालाय कालनाथाय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ३६॥
नमः शम्भुस्वरूपाय शम्भुरूपिन्नमोऽस्तुते ।
नमः कमलहस्ताय डमरूहस्ताय ते नमः ॥ ३७॥
नमः कुक्कुरवाहाय वहनाय नमो नमः ।
नमो विमलनेत्राय त्रिनेत्राय नमो नमः ॥ ३८॥
नमः संसाररूपाय सारमेयाय वाहिने ।
संसारज्ञानरूपाय ज्ञाननाथाय ते नमः ॥ ३९॥
नमो मङ्गलरूपाय मङ्गलाय नमो नमः ।
नमो न्यायविशालाय मन्त्ररूपाय ते नमः ॥ ४०॥
नमो यन्त्रस्वरूपाय यन्त्रधारिन्नमोऽस्तु ते ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४१॥
नमः कङ्कालरूपाय कलङ्काय नमो नमः ।
नमः संसारपाराय भैरवाय नमो नमः ॥ ४२॥
रुण्डमालाविभूषाय भीषणाय नमो नमः ।
नमो दुखःनिवाराय विहाराय नमो नमः ॥ ४३॥
नमो दण्डस्वरूपाय क्षणरूपाय नमो नमः ।
नमो मुहूर्तरूपाय सर्वरूपाय ते नमः ॥ ४४॥
नमो मोदस्वरूपाय श्रोतरूपाय नमो नमः ।
नमो नक्षत्ररूपाय क्षेत्ररूपाय ते नमः ॥ ४५॥
नमो विष्णुस्वरूपाय बिन्दुरूपाय ते नमः ।
नमो ब्रह्मस्वरूपाय ब्रह्मचारिन्नमोऽस्तु ते ॥ ४६॥
नमः कन्थानिवासाय पटवासाय ते नमः ।
नमः ज्वालनरूपाय ज्वलनाय नमो नमः ॥ ४७॥
नमो बटुकरूपाय धूर्तरूपाय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४८॥
नमो वैद्यस्वरूपाय वैद्यरूपिन्नमोऽस्तु ते ।
नमः औषधरूपाय औषधाय नमो नमः ॥ ४९॥
नमो व्याधिनिवाराय व्याधिरूपिन्नमो नमः ।
नमो ज्वरनिवाराय ज्वररूपाय ते नमः ॥ ५०॥
नमो रुद्रस्वरूपाय रुद्राणां पतये नमः ।
विरूपाक्षाय देवाय भैरवाय नमो नमः ॥ ५१॥
नमो ग्रहस्वरूपाय ग्रहाणां पतये नमः ।
नमः पवित्रधाराय परशुधाराय ते नमः ॥ ५२॥
यज्ञोपवीत देवाय देवदेव नमोऽस्तु ते ।
नमो यज्ञस्वरूपाय यज्ञानां फलदायिने ॥ ५३॥
नमो रुद्रप्रतापाय तापनाय नमो नमः ।
नमो गणेशरूपाय गणरूपाय ते नमः ॥ ५४॥
नमो रश्मिस्वरूपाय रश्मिरूपाय ते नमः ।
नमो मलयरूपाय रश्मिरूपाय ते नमः ॥ ५५॥
नमो विभक्तिरूपाय विमलाय नमो नमः ।
नमो मधुररूपाय मधुपूर्णकलापिने ॥ ५६॥
कालेश्वराय कालाय कालनाथाय ते नमः ।
नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ ५७॥
नमो योनिस्वरूपाय मातृरूपाय ते नमः ।
नमो भगिनीरूपाय भैरवाय नमो नमः ॥ ५८॥
नमो वृषस्वरूपाय कर्मरूपाय ते नमः ।
नमो वेदान्तवेद्याय वेदसिद्धान्तसारिणे ॥ ५९॥
नमः शाखाप्रकाशाय पुरुषाय नमो नमः ।
नमः प्रकृतिरूपाय भैरवाय नमो नमः ॥ ६०॥
नमो विश्वस्वरूपाय शिवरूपाय ते नमः ।
नमो ज्योतिःस्वरूपाय निर्गुणाय नमो नमः ॥ ६१॥
निरञ्जनाय शान्ताय निर्विकाराय ते नमः ।
निर्मयाय विमोहाय विश्वनाथाय ते नमः ॥ ६२॥
नमः कण्ठप्रकाशाय शत्रुनाशाय ते नमः ।
नमः आशाप्रकाशाय आशापूरकृते नमः ॥ ६३॥
नमो मत्स्यस्वरूपाय योगरूपाय ते नमः ।
नमो वाराहरूपाय वामनाय नमो नमः ॥ ६४॥
नमः आनन्दरूपाय आनन्दाय नमो नमः ।
नमोऽस्त्वनर्घकेशाय ज्वलत्केशाय ते नमः ॥ ६५॥
नमः पापविमोक्षाय मोक्षदाय नमो नमः ।
नमः कैलासनाथाय कालनाथाय ते नमः ॥ ६६॥
नमो बिन्दुदबिन्दाय बिन्दुभाय नमो नमः ।
नमः प्रणवरूपाय भैरवाय नमो नमः ॥ ६७॥
नमो मेरुनिवासाय भक्तवासाय ते नमः ।
नमो मेरुस्वरूपाय भैरवाय नमो नमः ॥ ६८॥
नमो भद्रस्वरूपाय भद्ररूपाय ते नमः ।
नमो योगिस्वरूपाय योगिनां पतये ते नमः ॥ ६९॥
नमो मैत्रस्वरूपाय मित्ररूपाय ते नमः ।
नमो ब्रह्मनिवासाय काशीनाथाय ते नमः ॥ ७०॥
नमो ब्रह्माण्डवासाय ब्रह्मवासाय ते नमः ।
नमो मातङ्गवासाय सूक्ष्मवासाय ते नमः ॥ ७१॥
नमो मातृनिवासाय भ्रातृवासाय ते नमः ।
नमो जगन्निवासाय जलावासाय ते नमः ॥ ७२॥
नमः कौलनिवासाय नेत्रवासाय ते नमः ।
नमो भैरववासाय भैरवाय नमो नमः ॥ ७३॥
नमः समुद्रवासाय वह्निवासाय ते नमः ।
नमश्चन्द्रनिवासाय चन्द्रावासाय ते नमः ॥ ७४॥
नमः कलिङ्गवासाय कलिङ्गाय नमो नमः ।
नमः उत्कलवासाय शक्रवासाय ते नमः ॥ ७५॥
नमः कर्पूरवासाय सिद्धिवासाय नमः ।
नमः सुन्दरवासाय भैरवाय नमो नमः ॥ ७६॥
नमः आकाशवासाय वासिने सर्वयोगिनाम् ।
नमो ब्राह्मणवासाय शूद्रवासाय ते नमः ॥ ७७॥
नमः क्षत्रियवासाय वैश्यवासाय ते नमः ।
नमः पक्षिनिवासाय भैरवाय नमो नमः ॥ ७८॥
नमः पातालमूलाय मूलावासाय ते नमः ।
नमो रसातलस्थाय सर्वपातालवासिने ॥ ७९॥
नमः कङ्कालवासाय कङ्कवासाय ते नमः ।
नमः मन्त्रनिवासाय भैरवाय नमो नमः ॥ ८०॥
नमोऽहङ्काररूपाय रजोरूपाय ते नमः ।
नमः सत्त्वनिवासाय भैरवाय नमो नमः ॥ ८१॥
नमो नलिनरूपाय नलिनाङ्गप्रकाशिने ।
नमः सूर्यस्वरूपाय भैरवाय नमो नमः ॥ ८२॥
नमो दुष्टनिवासाय साधूपायस्वरूपिणे ।
नमो नम्रस्वरूपाय स्तम्भनाय नमो नमः ॥ ८३॥
पञ्चयोनिप्रकाशाय चतुर्योनिप्रकाशिने ।
नवयोनिप्रकाशाय भैरवाय नमो नमः ॥ ८४॥
नमः षोडशरूपाय नमः षोडशधारिणे ।
चतुःषष्टिप्रकाशाय भैरवाय नमो नमः ॥ ८५॥
नमो बिन्दुप्रकाशाय सुप्रकाशाय ते नमः ।
नमो गणस्वरूपाय सुखरूप नमोऽस्तुते ॥ ८६॥
नमश्चाम्बररूपाय भैरवाय नमो नमः ।
नमो नानास्वरूपाय सुखरूप नमोऽस्तुते ॥ ८७॥
नमो दुर्गस्वरूपाय दुःखहर्त्रे नमोऽस्तुते ।
नमो विशुद्धदेहाय दिव्यदेहाय ते नमः ॥ ८८॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमः प्रेतनिवासाय पिशाचाय नमो नमः ॥ ८९॥
नमो निशाप्रकाशाय निशारूप नमोऽस्तु ते ।
नमः सोमार्धरामाय धराधीशाय ते नमः ॥ ९०॥
नमः संसारभाराय भारकाय नमो नमः ।
नमो देहस्वरूपाय अदेहाय नमो नमः ॥ ९१॥
देवदेहाय देवाय भैरवाय नमो नमः ।
विश्वेश्वराय विश्वाय विश्वधारिन्नमोऽस्तु ते ॥ ९२॥
स्वप्रकाशप्रकाशाय भैरवाय नमो नमः ।
स्थितिरूपाय नित्याय स्थितीनां पतये नमः ॥ ९३॥
सुस्थिराय सुकेशाय केशवाय नमो नमः ।
स्थविष्ठाय गरिष्ठाय प्रेष्ठाय परमात्मने ॥ ९४॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमः पारदरूपाय पवित्राय नमो नमः ॥ ९५॥
नमो वेधकरूपाय अनिन्दाय नमो नमः ।
नमः शब्दस्वरूपाय शब्दातीताय ते नमः ॥ ९६॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमोऽनिन्द्यस्वरूपाय ह्यनिन्दाय नमः ॥ ९७॥
नमो विष्णुरूपाय भैरवाय नमो नमः ।
नमः शरणरूपाय शरण्यानां नमो ॥ ९८॥
नमः शरण्यरक्षाय भैरवाय सुखाय ते ।
नमः स्वाहास्वरूपाय स्वधारूपाय ते नमः ॥ ९९॥
नमो वौषट्स्वरूपाय भैरवाय नमो नमः ।
अक्षराय नमस्तुभ्यं त्रिधामात्रास्वरूपिणे ॥ १००॥
नमोऽक्षराय शुद्धाय भैरवाय नमो नमः ।
अर्धमात्राय पूर्णाय सम्पूर्णाय नमो नमः ॥ १०१॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमोऽष्टचक्ररूपाय ब्रह्मरूपाय ते नमः ॥ १०२॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमः सृष्टिस्वरूपाय सृष्टिकर्त्रे महात्मने ॥ १०३॥
नमः पाल्यस्वरूपाय भैरवाय नमो नमः ।
सनातनाय नित्याय निर्गुणाय गुणाय ते ॥ १०४॥
नमः सिद्धाय शान्ताय भैरवाय नमो नमः ।
नमो धारास्वरूपाय खड्गहस्ताय ते नमः ॥ १०५॥
नमस्त्रिशूलहस्ताय भैरवाय नमो नमः ।
नमः कुण्डलवर्णाय शवमुण्डविभूषिणे ॥ १०६॥
महाकुद्धाय चण्डाय भैरवाय नमो नमः ।
नमो वासुकिभूषाय सर्पभूषाय ते नमः ॥ १०७॥
नमः कपालहस्ताय भैरवाय नमो नमः ।
पानपात्रमत्ताय मत्तरूपाय ते नमः ॥ १०८॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमो माधवरूपाय माधवाय नमो नमः ॥ १०९॥
नमो माङ्गल्यरूपाय भैरवाय नमो नमः ।
नमः कुमाररूपाय स्त्रीरूपाय नमो नमः ॥ ११०॥
नमो गन्धस्वरूपाय भैरवाय नमो नमः ।
नमो दुर्गन्धरूपाय सुगन्धाय नमो नमः ॥ १११॥
नमः पुष्पस्वरूपाय पुष्पभूषण ते नमः ।
नमः पुष्पप्रकाशाय भैरवाय नमो नमः ॥ ११२॥
नमः पुष्पविनोदाय पुष्पपूजाय ते नमः ।
नमो भक्तिनिवासाय भक्तदुःखनिवारिणे ॥ ११३॥
भक्तप्रियाय शान्ताय भैरवाय नमो नमः ।
नमो भक्तिस्वरूपाय रूपदाय नमो नमः ॥ ११४॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमो वासाय भद्राय वीरभद्राय ते नमः ॥ ११५॥
नमो सङ्ग्रामसाराय भैरवाय नमो नमः ।
नमः खट्वाङ्गहस्ताय कालहस्ताय ते नमः ॥ ११६॥
नमोऽघोराय घोराय घोराघोरस्वरूपिणे ।
घोरधर्माय घोराय भैरवाय नमो नमः ॥ ११७॥
घोरत्रिशूलहस्ताय घोरपानाय ते नमः ।
घोररूपाय नीलाय भैरवाय नमो नमः ॥ ११८॥
घोरवाहनगम्याय अगम्याय नमो नमः ।
घोरब्रह्मस्वरूपाय भैरवाय नमो नमः ॥ ११९॥
घोरशब्दाय घोराय घोरदेहाय ते नमः ।
घोरद्रव्याय घोराय भैरवाय नमो नमः ॥ १२०॥
घोरसङ्घाय सिंहाय सिद्धिसिंहाय नमो नमः ।
नमः प्रचण्डसिंहाय सिंहरूपाय ते नमः ॥ १२१॥
नमः सिंहप्रकाशाय सुप्रकाशाय ते नमः ।
नमो विजयरूपाय जगदाद्य नमो नमः ॥ १२२॥
नमो भार्गवरूपाय गर्भरूपाय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १२३॥
नमो मेध्याय शुद्धाय मायाधीशाय ते नमः ।
नमो मेघप्रकाशाय भैरवाय नमो नमः ॥ १२४॥
दुर्ज्ञेयाय दुरन्ताय दुर्लभाय दुरात्मने ।
भक्तिलभ्याय भव्याय भाविताय नमो नमः ॥ १२५॥
नमो गौरवरूपाय गौरवाय नमो नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १२६॥
नमो विघ्ननिवाराय विघ्ननाशिन्नमोऽस्तुते ।
विघ्नविद्रावणायैव भैरवाय नमो नमः ॥ १२७॥
नमो किंशुकरूपाय रजोरूपाय ते नमः ।
नमो नीलस्वरूपाय भैरवाय नमो नमः ॥ १२८॥
नमो गणस्वरूपाय गणनाथाय ते नमः ।
नमो विश्वविकासाय भैरवाय नमो नमः ॥ १२९॥
नमो योगिप्रकाशाय योगिगम्याय ते नमः ।
नमो हेरम्बरूपाय भैरवाय नमो नमः ॥ १३०॥
नमस्त्रिधास्वरूपाय रूपदाय नमो नमः ।
नमः स्वरस्वरूपाय भैरवाय नमो नमः ॥ १३१॥
नमः सरस्वतीरूप बुद्धिरूपाय ते नमः ।
नमो वन्द्यस्वरूपाय भैरवाय नमो नमः ॥ १३२॥
नमस्त्रिविक्रमरूपाय त्रिस्वरूपाय ते नमः ।
नमः शशाङ्करूढाय भैरवाय नमो नमः ॥ १३३॥
नमो व्यापकरूपाय व्याप्यरूपाय ते नमः ॥
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १३४॥
नमो विशदरूपाय भैरवाय नमो नमः ।
नमः सत्यस्वरूपाय भैरवाय नमो नमः ॥ १३५॥
नमः सूक्तस्वरूपाय शिवदाय नमो नमः ।
नमो गङ्गास्वरूपाय यमुनारूपिणे नमः ॥ १३६॥
नमो गौरीस्वरूपाय भैरवाय नमो नमः ।
नमो दुःखविनाशाय दुःखमोक्षस्वरूपिणे ॥ १३७॥
महाचलाय वन्द्याय भैरवाय नमो नमः ।
नमो नन्दस्वरूपाय भैरवाय नमो नमः ॥ १३८॥
नमो नन्दिस्वरूपाय स्थिररूपाय ते नमः ।
नमो केलिस्वरूपाय भैरवाय नमो नमः ॥ १३९॥
नमः क्षेत्रनिवासाय वासिने ब्रह्मवादिने ।
नमः शान्ताय शुद्धाय भैरवाय नमो नमः ॥ १४०॥
नमो नर्मदरूपाय जलरूपाय ते नमः ।
नमो विश्वविनोदाय जयदाय नमो नमः ॥ १४१॥
नमो महेन्द्ररूपाय महनीयाय ते नमः ।
नमः संसृतिरूपाय शरण्याय च ते नमः ॥ १४२॥
नमस्त्रिबन्धुवासाय बालकाय नमो नमः ।
नमः संसारसाराय सरसां पतये नमः ॥ १४३॥
नमस्तेजःस्वरूपाय भैरवाय नमो नमः ।
नमः काव्यस्वरूपाय भैरवाय नमो नमः ॥ १४४॥
नमो गोकर्णरूपाय ब्रह्मवर्णाय ते नम ।
नमः शङ्करवर्णाय हस्तिकर्णाय ते नमः ॥ १४५॥
नमः विष्टरकर्णाय यज्ञकर्णाय ते नमः ।
नमः शम्बुककर्णाय भैरवाय नमो नमः ॥ १४६॥
नमो दिव्यसुकर्णाय कालकर्णाय ते नमः ।
नमो भयदकर्णाय भैरवाय नमो नमः ॥ १४७॥
नमः आकाशवर्णाय कालकर्णाय ते नमः ।
नमो दिग्रूपकर्णाय भैरवाय नमो नमः ॥ १४८॥
नमो विशुद्धकर्णाय विमलाय नमो नमः ।
नमः सहस्रकर्णाय भैरवाय नमो नमः ॥ १४९॥
नमः नेत्रप्रकाशाय सुनेत्राय नमो नमः ।
नमो वरदनेत्राय जयनेत्राय ते नमः ॥ १५०॥
नमो विमलनेत्राय योगिनेत्राय ते नमः ।
नमः सहस्रनेत्राय भैरवाय नमो नमः ॥ १५१॥
नमः कलिन्दरूपाय कलिन्दाय नमो नमः ।
नमो ज्योतिःस्वरूपाय ज्योतिषाय नमो नमः ॥ १५२॥
नमस्तारप्रकाशाय ताररूपिन्नमोऽस्तु ते ।
नमो नक्षत्रनेत्राय भैरवाय नमो नमः ॥ १५३॥
नमश्चन्द्रप्रकाशाय चन्द्ररूप नमोऽस्तु ते ।
नमो रश्मिस्वरूपाय भैरवाय नमो नमः ॥ १५४॥
नमः आनन्दरूपाय जयानन्दस्वरूपिणे ।
नमः द्रविडरूपाय भैरवाय नमो नमः ॥ १५५॥
नमः शङ्खनिवासाय शङ्कराय नमो नमः ।
नमो मुद्राप्रकाशाय भैरवाय नमो नमः ॥ १५६॥
नमो न्यासस्वरूपाय न्यासरूप नमोऽस्तुते ।
नमो बिन्दुस्वरूपाय भैरवाय नमो नमः ॥ १५७॥
नमो विसर्गरूपाय प्रणवरूपाय ते नमः ।
नमो मन्त्रप्रकाशाय भैरवाय नमो नमः ॥ १५८॥
नमो जम्बुकरूपाय जङ्गमाय नमो नमः ।
नमो गरुडरूपाय भैरवाय नमो नमः ॥ १५९॥
नमो लम्बुकरूपाय लम्बिकाय नमो नमः ।
नमो लक्ष्मीस्वरूपाय भैरवाय नमो नमः । ॥ १६०॥
नमो वीरस्वरूपाय वीरणाय नमो नमः ।
नमः प्रचण्डरूपाय भैरवाय नमो नमः ॥ १६१॥
नमो दम्भस्वरूपाय डमरूधारिन्नमोऽस्तु ते ।
नमः कलङ्कनाशाय कालनाथाय ते नमः ॥ १६२॥
नमः सिद्धिप्रकाशाय सिद्धिदाय नमो नमः ।
नमः सिद्धस्वरूपाय भैरवाय नमो नमः ॥ १६३॥
नमो धर्मप्रकाशाय धर्मनाथाय ते नमः ।
धर्माय धर्मराजाय भैरवाय नमो नमः ॥ १६४॥
नमो धर्माधिपतये धर्मध्येयाय ते नमः ।
नमो धर्मार्थसिद्धाय भैरवाय नमो नमः ॥ १६५॥
नमो निर्जररूपाय रूपारूपप्रकाशिने ।
नमो राजप्रकाशाय भैरवाय नमो नमः ॥ १६६॥
नमः प्रतापसिंहाय प्रतापाय नमो नमः ।
नमः कोटिप्रतापाय भैरवाय नमो नमः ॥ १६७॥
नमः सहस्ररूपाय कोटिरूपाय ते नमः ।
नमः आनन्दरूपाय भैरवाय नमो नमः ॥ १६८॥
नमः संहारबन्धाय बन्धकाय नमो नमः ।
नमः विमोक्षरूपाय मोक्षदाय नमो नमः ॥ १६९॥
नमो विष्णुस्वरूपाय व्यापकाय नमो नमः ।
नमो माङ्गल्यनाथाय शिवनाथाय ते नमः ॥ १७०॥
नमो व्यालाय व्याघ्राय व्याघ्रस्तपिन्नमोऽस्तु ते ।
नमो व्यालविभूषाय भैरवाय नमो नमः ॥ १७१॥
नमो विद्याप्रकाशाय विद्यानां पतये नमः ।
नमो योगिस्वरूपाय क्रूररूपाय ते नमः ॥ १७२॥
नमो संहाररूपाय शत्रुनाशाय ते नमः ।
नमो पालकरूपाय भैरवाय नमो नमः ॥ १७३॥
नमः कारुण्यदेवाय देवदेवाय ते नमः ।
नमो विश्वविलासाय भैरवाय नमो नमः ॥ १७४॥
नमो नमः प्रकाशाय काशीवासिन्नमोऽस्तु ते ।
नमो भैरवक्षेत्राय क्षेत्रपालाय ते नमः ॥ १७५॥
नमो भद्रस्वरूपाय भद्रकाय नमो नमः ।
नमो भद्राधिपतये भयहन्त्रे नमोऽस्तु ते ॥ १७६॥
नमो मायाविनोदाय मायिने मदरूपिणे ।
नमो मत्ताय शान्ताय भैरवाय नमो नमः ॥ १७७॥
नमो मलयवासाय कैलासाय नमो नमः ।
नमो कैलासवासाय कालिकातनयाय ते नमः ॥ १७८॥
नमो संसारपाराय भैरवाय नमो नमः ।
नमो मातृविनोदाय विमलाय नमो नमः ॥ १७९॥
नमो यमप्रकाशाय नियमाय नमो नमः ।
नमः प्राणप्रकाशाय ध्यानाधिपतये नमः ॥ १८०॥
नमो समाधिरूपाय निर्गुणाय नमो नमः ।
नमः मन्त्रप्रकाशाय मन्त्ररूपाय नमः ॥ १८१॥
नमो वृन्दविनोदाय वृन्दकाय नमो नमः ।
नमः बृंहितरूपाय भैरवाय नमो नमः ॥ १८२॥
नमो मान्यस्वरूपाय मानदाय नमो नमः ।
नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ १८३॥
नमो नैमिषपीठाय सिद्धपीठाय ते नमः ।
नमो मण्डलपीठाय भक्तपीठाय ते नमः ॥ १८४॥
नमो यशोदानाथाय कामनाथाय ते नमः ।
नमो विनोदनाथाय सिद्धनाथाय ते नमः ॥ १८५॥
नमो नाथाय नाथाय ज्ञाननाथाय ते नमः ।
नमः शङ्करनाथाय जयनाथाय ते नमः ॥ १८६॥
नमो मुद्गलनाथाय नीलनाथाय ते नमः ।
नमो बालकनाथाय धर्मनाथाय ते नमः ॥ १८७॥
विश्वनाथाय नाथाय कार्यनाथाय ते नमः ।
नमो भैरवनाथाय महानाथाय ते नमः ॥ १८८॥
नमो ब्रह्मसनाथाय योगनाथाय ते नमः ।
नमो विश्वविहाराय विश्वभाराय ते नमः ॥ १८९॥
नमो रङ्गसनाथाय रङ्गनाथाय ते नमः ।
नमो मोक्षसनाथाय भैरवाय नमो नमः ॥ १९०॥
नमो गोरक्ःहनाथाय गोरक्षाय नमो नमः ।
नमो मन्दारनाथाय नन्दनाथाय ते नमः ॥ १९१॥
नमो मङ्गलनाथाय चम्पानाथाय ते नमः ।
नमः सन्तोषनाथाय भैरवाय नमो नमः ॥ १९२॥
नमो निर्धननाथाय सुखनाथाय ते नमः ।
नमः कारुण्यनाथाय भैरवाय नमो नमः ॥ १९३॥
नमो द्रविडनाथाय दरीनाथाय ते नमः ।
नमः संसारनाथाय जगन्नाथाय ते नमः ॥ १९४॥
नमो माध्वीकनाथाय मन्त्रनाथाय ते नमः ।
नमो न्याससनाथाय ध्याननाथाय ते नमः ॥ १९५॥
नमो गोकर्णनाथाय महानाथाय ते नमः ।
नमः शुभ्रसनाथाय भैरवाय नमो नमः ॥ १९६॥
नमो विमलनाथाय मण्डनाथाय ते नमः ।
नमः सरोजनाथाय मत्स्यनाथाय ते नमः ॥ १९७॥
नमो भक्तसनाथाय भक्तिनाथाय ते नमः ।
नमो मोहननाथाय वत्सनाथाय ते नमः ॥ १९८॥
नमो मातृसनाथाय विश्वनाथाय ते नमः ।
नमो बिन्दुसनाथाय जयनाथाय ते नमः ॥ १९९॥
नमो मङ्गलनाथाय धर्मनाथाय ते नमः ।
नमो गङ्गासनाथाय भूमिनाथाय ते नमः ॥ २००॥
नमो धीरसनाथाय बिन्दुनाथाय ते नमः ।
नमः कञ्चुकिनाथाय श‍ृङ्गिनाथाय ते नमः ॥ २०१॥
नमो समुद्रनाथाय गिरिनाथाय ते नमः ।
नमः माङ्गल्यनाथाय कद्रुनाथाय ते नमः ॥ २०२॥
नमो वेदान्तनाथाय श्रीनाथाय ते नमः ।
नमो ब्रह्माण्डनाथाय भैरवाय नमो नमः ॥ २०३॥
नमो गिरिशनाथाय वामनाथाय ते नमः ।
नमः बीजसनाथाय भैरवाय नमो नमः ॥ २०४॥
नमो मन्दिरनाथाय मन्दनाधाय ते नमः ।
नमो भैरवीनाथाय भैरवाय नमो नमः ॥ २०५॥
अम्बानाथाय नाथाय जन्तुनाथाय ते नमः ।
नमः कालिसनाथाय भैरवाय नमो नमः ॥ २०६॥
नमो मुकुन्दनाथाय कुन्दनाथाय ते नमः ।
नमो कुण्डलनाथाय भैरवाय नमो नमः ॥ २०७॥
नमोऽष्टचक्रनाथाय चक्रनाथाय ते नमः ।
नमो विभूतिनाथाय शूलनाथाय ते नमः ॥ २०८॥
नमो न्यायसनाथाय न्यायनाथाय ते नमः ।
नमो दयासनाथाय जङ्गमनाथाय ते नमः ॥ २०९॥
नमो विशदनाथाय जगन्नाथाय ते नमः ।
नमो कामिकनाथाय भैरवाय नमो नमः ॥ २१०॥
नमः क्षेत्रसनाथाय जीवनाथाय ते नमः ।
नमः शैलनाथाय चैलनाथाय ते नमः ॥ २११॥
नमो मात्रासनाथाय अमात्राय नमो नमः ।
नमो द्वन्द्वसनाथाय भैरवाय नमो नमः ॥ २१२॥
नमः शूरसनाथाय शूरनाथाय ते नमः ।
नमः सौजन्यनाथाय सौजन्याय नमो नमः ॥ २१३॥
नमो दुष्टसनाथाय भैरवाय नमो नमः ।
नमो भयसनाथाय बिम्बनाथाय ते नमः ॥ २१४॥
नमो भैरवनाथाय भैरवाय नमो नमः ।
नमो विटङ्कनाथाय टङ्कनाथाय ते नमः ॥ २१५॥
नमश्चर्मसनाथाय खड्गनाथाय ते नमः ।
नमः शक्तिसनाथाय धनुर्नाथाय ते नमः ॥ २१६॥
नमो बाणसनाथाय शापनथाय ते नमः ।
नमो यन्त्रसनाथाय भैरवाय नमो नमः ॥ २१७॥
नमो गण्डूषनाथाय गण्डूषाय नमो ।
नमो डाकिनीनाथाय भैरवाय नमो नमः ॥ २१८॥
नमो डामरनाथाय डारकाय नमो नमः ।
नमो डङ्कसनाथाय डङ्कनाथाय ते नमः ॥ २१९॥
नमो माण्डवनाथाय यज्ञनाथाय ते नमः ।
नमो यजुःसनाथाय क्रीडानाथाय ते नमः ॥ २२०॥
नमः सामसनाथायाथर्वनाथाय ते नमः ।
नमः शून्याय नाथाय स्वर्गनाथाय ते नमः ह्रीं ॐ ॥ २२१॥

फलश्रुतिः
इदं नामसहस्रं मे रुद्रेण परिकीर्तितम् ।
यः पठेत्पाठयेद्वापि स एव मम सेवकः ॥ २२२॥
यं यं चिन्तयते कामं कारकारं प्रियाकृतिम् ।
यः श‍ृणोति दुरापं स तं तं प्राप्नोति मामकः ॥ २२३॥
राजद्वारे श्मशाने तु पृथिव्यां जलसन्निधौ ।
यः पठेन्मानवो नित्यं स शूरः स्यान्न संशयः ॥ २२४॥
एककालं द्विकालं वा त्रिकालं वा पठेन्नरः ।
स भवेद्बुद्धिमाँल्लोके सत्यमेव न संशयः ॥ २२५॥
यः श‍ृणोति नरो भक्त्या स एव गुणसागरः ।
यः श्रद्धया रात्रिकाले श‍ृणोति पठतेऽपि वा ॥ २२६॥
स एव साधकः प्रोक्तः सर्वदुष्टविनाशकः ।
अर्धरात्रे पठेद्यस्तु स एव पुरुषोत्तमः ॥ २२७॥
त्रिसन्ध्ये वै देवगृहे श्मशाने च विशेषतः ।
वने च मार्गगमने बले दुर्जनसन्निधौः ॥ २२८॥
यः पठेत्प्रयतो नित्यं स सुखी स्यान्न संशयः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ २२९॥
शौर्यार्थी लभते शौर्यं पुत्रार्थी पुत्रमाप्नुयात् ।
एकविंशतिमन्त्रेण अक्षरेण सहैव मे ॥ २३०॥
यः पठेत्प्रातरुत्थाय सर्व काममवाप्नुयात् ।
रसार्थी आठमात्रेण रसं प्राप्नोति नित्यशः ॥ २३१॥
अन्नार्थी लभते चान्नं सुखार्थी सुखमाप्नुयात् ।
रोगी प्रमुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ २३२॥
शापार्थी लभते शापं सर्वशत्रुविनाशनम् ।
स्थावरं जङ्गमं वापि विषं सर्वं प्रणश्यति ॥ २३३॥
सर्वलोकप्रियः शान्तो मातापितृप्रियङ्करः ।
सङ्ग्रामे विजयस्तस्य यः पठेद्भक्तिसंयुतः ॥ २३४॥
सर्वत्र जयदं देवि स्तोत्रमेतत्प्रकीर्तितम् ।
इदं स्तोत्रं महापुण्यं निन्दकाय न दर्शयेत् ॥ २३५॥
असाधकाय दुष्टाय मातापितृविकारिणे ।
अधार्मिकाकुलीनाभ्यां नैतत्सोत्रं प्रकाशयेत् ॥ २३६॥
साधकाय च भक्ताय योगिने धार्मिकाय च ।
गुरुभक्ताय शान्ताय दर्शयेत्साधकोत्तमः ॥ २३७॥
अन्यथा पापलिप्तः स्यात्क्रोधाय भैरवोत्तमे ।
तस्मात्सर्वप्रयत्नेन गोपनीयं प्रयत्नतः ॥ २३८॥
इदं स्तोत्रं च रुद्रेण रामस्यापि मुखेऽर्पितम् ।
तन्मुखान्निःसृतं लोके दरिद्रायापि साधवे ॥ २३९॥
रामेण कथितं भ्रात्रे लक्ष्मणाय महात्मने ।
ततो दुर्वाससा प्राप्तं तनैवोक्तं तु पाण्डवे ॥ २४०॥
पाण्डवोऽप्यब्रवीत्कृष्णं कृष्णेनेह प्रकीर्तितम् ।
अस्य स्तोत्रस्य माहात्म्यं रामो जानाति तत्त्वतः ॥ २४१॥
रामोऽपि राज्यं सम्प्राप्तो ह्यस्य स्तोत्रस्य पाठतः ।
पाण्डवोऽपि तथा राज्यं सम्प्राप्तो भैरवस्य च ॥ २४२॥
अनेन स्तोत्रपाठेन किमलभ्यं भवेदिति ।
सर्वलोकस्य पूज्यस्तु जायते नात्र संशयः ॥ २४३॥

॥ इति ॥
॥ इति श्रीरुद्रयामले श्रीबटुकभैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्रीबटुकभैरव सहस्रनाम स्तोत्र का महत्व (Significance)

श्रीबटुकभैरव सहस्रनाम स्तोत्र भगवान शिव के उग्र, किंतु बाल स्वरूप, बटुक भैरव को समर्पित है। बटुक भैरव को क्षेत्रपाल (Guardian of the region) और आपदुद्धारक (Remover of calamities) माना जाता है। सहस्रनाम (हजार नाम) किसी भी देवता के सभी पहलुओं, शक्तियों और गुणों का सार होता है। इस स्तोत्र का पाठ करने से साधक को बटुक भैरव की संपूर्ण शक्ति (Power) प्राप्त होती है। यह केवल एक पूजा विधि नहीं है, बल्कि यह भगवान भैरव के विभिन्न रूपों—जैसे कङ्कालरूपाय (Skeleton form), कालरूप (Form of Time), और शान्ताय (Peaceful one)—को समझने का एक आध्यात्मिक मार्ग है। तंत्र और शाक्त परंपराओं में, बटुक भैरव की उपासना को त्वरित फलदायी और अत्यंत गोपनीय माना जाता है।

स्तोत्र की उत्पत्ति और ऋषि (Origin and Rishi)

स्तोत्र के विनियोग (Viniyoga) खंड के अनुसार, इस सहस्रनाम स्तोत्र के रचयिता (ऋषि) श्रीदुर्वासा (Shri Durvasa) हैं। दुर्वासा ऋषि अपनी तीव्र तपस्या और क्रोधी स्वभाव के लिए प्रसिद्ध हैं, लेकिन वे भगवान शिव के महान भक्त भी थे। उनके द्वारा रचित स्तोत्र अत्यंत शक्तिशाली और प्रभावी माने जाते हैं। इस स्तोत्र का छंद अनुष्टुप् (Anushtup) है, जो संस्कृत साहित्य में सबसे अधिक उपयोग किए जाने वाले और लयबद्ध छंदों में से एक है। दुर्वासा ऋषि ने इस स्तोत्र की रचना विशेष रूप से सर्वकार्यसिद्ध्यर्थ (For the fulfillment of all tasks) और सर्वशत्रुनिवारणार्थ (For the removal of all enemies) के उद्देश्य से की थी, जैसा कि विनियोग में स्पष्ट रूप से उल्लेखित है।

बटुक भैरव के स्वरूप का दार्शनिक अर्थ (Philosophical Meaning of Batuka Bhairava)

बटुक भैरव, भैरव के सौम्य (बाल) रूप हैं, जो उन्हें अन्य उग्र भैरवों से अलग करता है। हालांकि, सहस्रनाम में उनके दोनों पहलुओं का वर्णन है। नामों की सूची दर्शाती है कि बटुक भैरव केवल एक संरक्षक देवता नहीं हैं, बल्कि वे संपूर्ण ब्रह्मांड का प्रतिनिधित्व करते हैं।
  • कॉस्मिक स्वरूप: उन्हें ब्रह्मस्वरूपाय (Form of Brahma), विश्ववन्द्याय (Worshipped by the Universe), और अनन्तस्वरूपाय (Infinite form) कहा गया है, जो उनकी सर्वोच्च सत्ता को दर्शाता है।
  • तत्व स्वरूप: वे पंच तत्वों के अधिपति हैं, जैसे वरुणरूपाय (Form of Water God), अग्निरूपाय (Form of Fire God), और वायुस्वरूपाय (Form of Wind God)।
  • योगिक स्वरूप: उन्हें योगिगम्याय (Attainable by Yogis) और प्राणाधिपतये (Lord of Prana) कहा गया है, जो दर्शाता है कि वे योग और आंतरिक साधना के माध्यम से प्राप्त किए जा सकते हैं।

स्तोत्र में निहित गहन अर्थ (Deep Meanings in the Hymn)

यह सहस्रनाम केवल नामों का संग्रह नहीं है, बल्कि यह शैव दर्शन का एक संक्षिप्त पाठ है। प्रत्येक नाम भगवान भैरव के विशिष्ट गुण या कार्य को उजागर करता है। उदाहरण के लिए, नाम नमः संसारसाराय सारदाय नमो नमः (जो संसार का सार हैं और सार प्रदान करते हैं) बताता है कि भैरव ही इस नश्वर जगत का अंतिम सत्य हैं। इसी प्रकार, नमः न्यायगम्याय योगिध्येयाय ते नमः (जो न्याय द्वारा प्राप्त किए जाते हैं और योगियों द्वारा ध्याए जाते हैं) यह स्थापित करता है कि भैरव की प्राप्ति केवल धार्मिक आचरण (न्याय) और गहन ध्यान (योग) से संभव है। यह स्तोत्र साधक को भौतिक और आध्यात्मिक दोनों प्रकार की वृद्धि (Growth) प्रदान करने का मार्ग दिखाता है।

श्रीबटुकभैरव सहस्रनाम पाठ के विशिष्ट लाभ (Specific Benefits of Recitation)

बटुक भैरव सहस्रनाम का पाठ विशेष रूप से उन साधकों के लिए अत्यंत फलदायी है जो जीवन में तीव्र बाधाओं या शत्रुओं का सामना कर रहे हैं। इस स्तोत्र के नियमित पाठ से निम्नलिखित लाभ प्राप्त होते हैं:
  • शत्रु और बाधा निवारण: यह स्तोत्र शत्रुविनाशाय (Destroyer of enemies) और सङ्कटनाशाय (Destroyer of crises) जैसे नामों के माध्यम से सभी प्रकार के बाहरी और आंतरिक शत्रुओं (जैसे भय, क्रोध) का नाश करता है।
  • सर्वकार्य सिद्धि: विनियोग के अनुसार, यह पाठ सभी लंबित कार्यों को सफलतापूर्वक पूरा करने में सहायता करता है और जीवन में जय (Victory) सुनिश्चित करता है।
  • क्षेत्रपाल सुरक्षा: बटुक भैरव क्षेत्रपाल होने के कारण, यह स्तोत्र घर, व्यापार स्थल और यात्रा के दौरान सुरक्षा (Protection) का एक अभेद्य कवच प्रदान करता है।
  • आध्यात्मिक उन्नति: यह मोक्षरूपाय (Form of Liberation) और शुद्धस्वरूपाय (Pure form) जैसे नामों का जाप करके साधक को आध्यात्मिक शुद्धि (Purity) और मोक्ष की ओर अग्रसर करता है।

स्तोत्र पाठ करने की उचित विधि (Method of Proper Recitation)

सहस्रनाम स्तोत्र का पाठ करते समय शास्त्रीय विधि का पालन करना आवश्यक है ताकि पूर्ण फल प्राप्त हो सके।
  • शुद्धि और संकल्प: पाठ शुरू करने से पहले स्नान करके शारीरिक और मानसिक शुद्धि (Purity) प्राप्त करें। इसके बाद, विनियोग (Dedication) का पाठ करें और अपने उद्देश्य (जैसे शत्रु नाश या कार्य सिद्धि) के लिए संकल्प (Intention) लें।
  • न्यास प्रक्रिया: ऋष्यादिन्यासः (Nyasa) का पालन करना अनिवार्य है। इसमें ऋषि, छंद, और देवता को शरीर के विभिन्न अंगों (शिरसि, मुखे, हृदि) में स्थापित किया जाता है, जिससे शरीर पाठ के लिए तैयार होता है।
  • समय और दिशा: भैरव उपासना के लिए मंगलवार, रविवार, या अष्टमी तिथि शुभ मानी जाती है। पाठ के दौरान दक्षिण दिशा की ओर मुख करना उत्तम माना जाता है, क्योंकि भैरव को दक्षिण दिशा का अधिपति माना जाता है।
  • ध्यान: पाठ करते समय बटुक भैरव के बाल स्वरूप, हाथ में त्रिशूल और डमरू धारण किए हुए रूप का ध्यान (Meditation) करें।