सव्याख्या महागणपतिस्तोत्रम्

सव्याख्या महागणपतिस्तोत्रं श्रीराघवचैतन्यविरचितम्
(तच्छिष्यकृतया टिप्पण्या समेतम् ।) योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय- प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् । आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपास्महे परिणतं दन्तावलस्यात्मना ॥ १॥ दन्तावलो गजस्तस्येवास्यं मुखं यस्य स गजाननस्तदात्मना तद्रूपेण परिणतं तं भूमानं परं ब्रह्मोपास्महे । कीदृशं तम् । आनन्दो ब्रह्मानन्दस्तेन प्लवमानः । लक्षणया पूर्णानन्दाभिन्न इत्यर्थः । ईदृशो यो बोधस्तेन चिदानन्दमयं स्वरूपमुक्तम् । तद्विवर्तरूपः प्रपञ्च एव मधुरामोदच्छटात्वेन रूपितस्तेन मेदुरम् । पुनः कीदृशम् । योगविदां योगम् । कीदृशां योगविदाम् । विधूतो विविधो व्यासङ्गो यैरत एव शुद्धो य आशयस्तस्मिन्प्रादुर्भूतः सुधारसः शान्तिसुखं येषां ते च ते प्रसृमरं प्रसारि ध्यानं यस्मिन्नीदृशं यदास्पदं कंदरादि तदध्यासिनश्च तेषाम् ॥ तारश्रीपरशक्तिकामवसुधारूपानुगां यं विदु- स्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते । आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २॥ महागणपतिमन्त्रमुद्धरति - तारः प्रणवः, श्रीर्लक्ष्मीबीजम्, परशक्तिर्मायाबीजम्, कामः कामबीजम्, वसुधा भूमिबीजम्, इति पञ्चरूपाणां बीजानामनु गमित्यक्षरमेतादृशं यं साधका विदुस्तस्मै गणाधिपतये प्रणतिः स्तादिति योजना । यः सततं स्वाहास्वधादिभिः शक्तिभिः पूजितः । आर्तेन रागिणा प्रथमं वरेति ततो वरदेत्यामन्त्र्याभ्यर्थ्यते । अभ्यर्थनामेवाह - सर्वं जनं स्वामिन्मे वशमानयेति । स्वाहादिभिरित्यनेन स्वाहान्तो मन्त्रः । अत्राधिपदं सर्वमिति च पदं छन्दोनुरोधादुक्तम् । मन्त्रे तु गणपतये तथा सर्वजनमित्येकमेव पदम् । स्वामिन्निति च मन्त्राद्बहिर्भूतम् ॥ कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि । मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे षट्कोणाकलितत्रिकोणरचनसत्कर्णिकेऽमुं भजे ॥ ३॥ कल्लोलानां महोर्मीणामञ्चलाः प्रान्तास्तैराश्लिष्टा मेघततिर्येनैतादृश इक्षुरससमुद्रे सुरद्रुमाणां पारिजातादीनां वनं तदामोदेन परिपुष्टे । रत्नमयं द्वीपं वारिमध्यस्थलं तद्गतस्य कल्पतरोर्मूले महामणिमयं पीठं तत्र षट्कोणयुक्तत्रिकोणकर्णीकायुक्तेऽक्षराम्भोरुहे तन्त्रप्रसिद्धे मातृकाकमलेऽमुं महागणपतिं भजे ॥ चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज- व्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् । आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४॥ चक्रं प्रसिद्धम्, प्रासस्त्रिशूलः, रसालकार्मुकमिक्षुधनुः, गदा प्रसिद्धा, बीजपूरो मातुलिङ्गम्, द्विजः स्वकीयो दन्तः, व्रीह्यग्रं शालिमञ्जरी, उत्पलं प्रसिद्धम्, पाशपङ्कजे च प्रसिद्धे, एवं दशायुधानि करेषु यस्य । शुण्डाग्रे पुष्करे जाग्रत्स्थितो घटो रत्नपूर्णो हेमकुम्भो यस्य । कमलहस्तया प्रियया दक्षिणहस्तेनालिङ्गितं माणिक्यप्रतिमं शोणच्छविं सर्वेश्वरं महागणपतिमाशास्महे ॥ दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृ- त्सिन्दूरारुणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम् । त्रैलोक्येष्टाविधानवर्णसुभगं यः पद्मरागोपमं धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५॥ दानाम्भसा मदाम्बुना परिमेदुरं व्याप्तं प्रसृमरान्व्यालम्बिनो रोलम्बान्भ्रमरान्बिभर्तीति प्रसृमरव्यालम्बिरोलम्बभृत् । सिन्दूरेणारुणमेतादृशं कुम्भप्रदेशद्वयं तस्य मिषात्त्रैलोक्येष्टविधान्वर्णसुभगं त्रिभुवनशुभविध्यक्षरमनोज्ञम् । पद्मरागोपमं पद्मरागो लोहितकस्तदुपमं प्रशस्तिद्वयं यो धत्ते स गणानां पतिर्देवः सततं श्रियमातनोतु । यथा मृदम्बुलिप्ते दारुफलके रक्तचूर्णं दत्त्वाक्षराणि, तथा दानाम्बुलिप्ते सिन्दूरवति कुम्भस्थले भ्रमरा इत्युक्तं भवति ॥ भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा- सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वंकृषाः । दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६॥ हेरम्बदन्तत्विषो मनः श्रयन्ताम् । किंभूताः । भ्राम्यतो मन्दरस्य घूर्णनावृत्तयस्तदायत्तस्य क्षीराब्धेर्वीचयो लहर्यस्तासां छटा अग्रभागास्तैः सदृशाः । पुनः कीदृशाः । चलचामरव्यतिकरश्रीगर्वसर्वंककृषाः । व्यतिकरो व्यतिषङ्गः । दिक्कान्तेत्यादिरूपकम् । घनसारः कर्पूरः । तथा स्वच्छन्दप्रसरप्रलिप्तवियतोऽनल्पसंचाराकीर्णाकाशाः । एतेन त्विषां बहुत्वं व्यज्यते ॥ मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा- कान्ताः कम्बुकदम्बचुम्बितघनाभोगप्रवालोपमाः । ज्योत्स्नापूरतरङ्गमन्थरतरत्संध्यावयस्याश्चिरं हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७॥ मौक्तिकसमूहमिश्रितप्रदीप्तमाणिक्यसमूहच्छटावत्कान्ता मनोहराः । शङ्खसमूहसंगतविस्तीर्णविद्रुमसमाः । ज्योत्स्नापूरतरङ्गे मन्थरं तरन्ती चासौ संध्या च तस्या वयस्याः साम्यात्सख्यः । एतादृशा हेरम्बस्य दन्तकिरणैर्व्याप्ताः शरीरत्विषश्चिरं जयन्ति ॥ शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षर- न्नानारत्नचयेन साधकजनान्संभावयन्कोटिशः । दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भव- त्कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८॥ शुण्डाप्रधृतसुवर्णकलशसंगृहीतेन क्षरता बहुत्वाद्बहिरपि निर्गच्छता मुक्तामाणिक्यादिरत्नसमूहेन कोटिशः साधकजनान्संभावयन्नसंख्यातानुपासकान्सम्पदा वर्धयन् । दानेत्यादि । आमोदो गन्धहर्षयोः । प्रोत्सारणमुच्चाटनं तदर्थमाविर्भवत्कर्णान्दोलनक्रीडः । गणानामीश्वरो देवो विजयते ॥ हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् । न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तया दक्षिणे बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां शुभम् ॥ ९॥ शाण्डिल्यमूले बिल्ववृक्षस्याधो यस्य महागणपतेः पुरतोऽग्रभागे पद्मे बिभ्रत्या श्रिया समं ते प्रसिद्धे शङ्खचक्रे वहन्मधुरिपुर्विष्णुरस्ति । तथा यस्य दक्षिणे न्यग्रोधस्य तले वटवृक्षाधः पाशाङ्कुशाभ्यामितया सहितयाद्रिसुतया पार्वत्या सह परशुं त्रिशूलं च बिभ्राणः शंभुः शिवोऽस्ति ॥ पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले बिभ्रत्या सममैक्षवं धनुरिषून्पौष्पान्वहन्पञ्च च । वामे चक्रगदाधरः स भगवान्क्रोडः प्रियंगोस्तले हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥ १०॥ देवस्य पश्चिमे पिप्पलवृक्षस्याध उत्पले बिभ्रत्या रत्या सममैक्षवं धनुः पञ्च पौष्पानिषूंश्च वहन् रतिपतिः कामदेवोऽस्ति । अस्य च वामे प्रियंगुवृक्षाधो हस्तोद्यच्छुकशालिमञ्जरिकयैकस्मिन्करे कीरमन्यत्र कलमकणिशं बिभ्रत्या धरण्या सह स प्रसिद्धो भगवान्क्रोडो वराहोऽस्ति तं हेरम्बं प्रणमामीति पूर्वेणान्वयः ॥ षट्कोणाश्रिषु षट्सु षड् गजमुखाः पाशाङ्कुशाभीवरा- न्बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः । आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः पश्चात्पार्श्वगतोऽस्य विघ्न इति यो विघ्नकर्तेति च ॥ ११॥ षट्कोणस्य पीठस्य षट्स्वश्रिषु पालीषु षड् गजमुखा ध्येयाः । कीदृशास्ते । पाशाङ्कुशाभयवरान्हस्तेषु बिभ्राणाः । प्रमदानां सखाय इति प्रमदासखाः । भार्यासहिता इत्यर्थः । पृथुश्चासौ महाशोणाश्मनां पद्मरागाणां पुञ्जस्तद्वत्त्विट् कान्तिर्येषां ते । यदि ’पृथुमहाः’ इति विसर्गान्तः पाठस्तदा भिन्नं पदम् । पृथुर्महो येषां ते । अकारान्तोऽपि महशब्दोऽस्ति । तेषां नामान्याह - पुरतोऽग्रकोण आमोदः । तं चामोदमभितः प्रमोदसुमुखौ । पुरः कल्पितपूर्वदिगपेक्षयाग्निकोणे प्रमोदः, एवमीशानकोणे सुमुख इत्यर्थः । पश्चात्पश्चिमकोणे दुर्मुखः । अस्य दुर्मुखस्य विघ्न इति यस्य नाम स एकस्मिन्पार्श्वे विघ्नकर्तेति यस्य नाम स द्वितीयपार्श्वेऽस्ति । अर्थादेको नैरृत्यकोणे, अपरो वायव्ये वर्तते ॥ आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः । कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२॥ कान्तस्य स्वस्वभर्तुरालिङ्गनरसं जानन्त्यत एव मन्थरा रागिणी दृग्यासां ताः । आमोदादीनां पूर्वश्लोकोक्तानां षण्णां भार्यास्तेषां समीपे स्थिता ध्येयाः । तासां नामानि च - सिद्धिः, समृद्धिः, कान्तिः, मदनावती, मदद्रवा, द्राविणी चेति ॥ आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षन्तौ वसु पार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी । अङ्गान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया- स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥ १३॥ वसुधया वसुमत्या च क्रमेणालिङ्गितौ शुक्लरक्तवर्णौ धनं वर्षन्तौ तौ शङ्खपद्मसंज्ञौ प्रसिद्धौ निधी षट्कोणपार्श्वयोर्विलसतः । तयोर्ध्यानं कुर्यादित्यर्थह । अनु निधिध्यानानन्तरं हृदयानि षडङ्गानि ध्यायेत् । परितो ब्राह्म्याद्या अष्ट मातरो ध्येयाः । षट्कोणाद्बहिःस्थितेऽष्टदलकमल इन्द्रादयो दिक्पालास्तद्बाह्ये तेषां समीप एव परिपतत्कालानलज्योतिषः प्रदीप्तस्वरूपा इन्द्रादीनां हेतयो वज्राद्या ध्येयाः ॥ इथं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं- काराक्षिप्तसमस्तदैत्यपृतनाव्राताय दीप्तत्विषे । आनन्दैकरसावबोधलहरीविध्वस्तसर्वोर्मये सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४॥ ’हेरम्बं प्रणमामि’ (९।१०) इति श्लोकाभ्यां विष्णुशिवादिस्वरूपैस्तनुर्मूर्तिर्यस्य स तस्मै । आदिपदात्स्मरक्रोडौ । हुंकारमात्रेण निरस्तसमस्तासुरसैन्यसमूहाय दीप्तकान्तये । आनन्देति । निरतिशयसुखस्फुरणतरङ्गैर्दूरीकृतसम्पूर्णोर्मये । ऊर्मयः षड्भावविकाराः । ते च - जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, नश्यतीति च । आनन्दैकरसावयोधलहरीभिर्विध्वस्ताः सर्वेषां साधकानामूर्मयः षडिन्द्रियजन्या वृत्तयो यस्मादित्येके । ऊर्मिशब्देनाविद्यादयो योगशास्त्रप्रसिद्धाः क्लेशाः । सर्वत्र प्रथमानं मुग्धं सुन्दरं महो यस्य तस्मै परस्मै जगतोऽन्यस्मै नमः ॥ सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी- कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् । राजन्नीराजनश्रीसखचरणनखद्योतविद्योतमानः श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५॥ सेवायां हेवाकोऽभिलाषो येषाम् । अहमग्रेऽहमग्रे भवामीतीच्छा । अहंपूर्विकेति यावत् । ते च ते देवासुरनराणां समूहास्तेषां देदीप्यमानमुकुटाग्राणां या कोटिः संख्याविशेषस्तत्र व्याटीकमानाः सुसंगताः सूर्यतुल्यरत्नपङ्क्तिकान्तिप्रवाहास्तेषाम् । राजन्ती नीराजनश्रीरारात्रिकशोभा तस्याः सखायस्ते च ते चरणनखाश्च तेषां द्योतेन प्रकाशेन विद्योतमानः स प्रसिद्धः सिन्धुरास्यो गजमुखः । हे विमलदृशः पण्डिताः । मम बन्धुरं रम्यं स्थेयः स्थिरतरं श्रेयः कल्याणं देयात् । ममेत्यस्य वा विमलदृश इति विशेषणम् । ’विमलदृशा’ इति पाठे तु सौम्यावलोकनेन श्रेयो दद्यादित्यर्थः ॥ एतेन प्रकटरहस्यमन्त्रमालागर्भेण स्फुटतरसंविदा स्तवेन । यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥ १६॥ स्फुटतरसंविदेत्यनेन स्तोत्रे प्रसादगुणः सूचितः । प्रचुरतरः मुहुर्मुहुः । अन्यत्स्पष्टम् ॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं तच्छिष्यकृतया टिप्पण्या समेतं समाप्तम् ॥संलिखित ग्रंथ पढ़ें
स्तोत्र का तांत्रिक महत्व और स्वरूप
श्री राघवचैतन्य विरचित महागणपति स्तोत्रम् कोई साधारण प्रार्थना नहीं है; यह एक उच्च कोटि का तांत्रिक ग्रंथ (Tantric Text) है। इसमें भगवान गणेश के उस विराट और गोपनीय स्वरूप का वर्णन है जो सामान्यतः मंदिरों में नहीं दिखता। यह स्तोत्र मुख्य रूप से ध्यान (Visualization) के लिए है। इसमें साधक गणेश जी को एक षट्कोण यंत्र (Hexagonal Yantra) के मध्य में विराजमान देखता है, जो ब्रह्मांडीय ऊर्जा का केंद्र है।
गूढ़ रहस्य और देवता विन्यास (Secret Placement of Deities)
इस स्तोत्र की सबसे बड़ी विशेषता यह है कि इसमें भगवान गणेश को 'परब्रह्म' और सभी देवताओं के मूल के रूप में स्थापित किया गया है। श्लोक 9 और 10 में गणेश जी के चारों ओर स्थित देवताओं का अद्भुत वर्णन है:
- पूर्व (East): गणेश जी के सामने 'बिल्व वृक्ष' के नीचे विष्णु और लक्ष्मी (Vishnu & Lakshmi) शंख-चक्र धारण किए विराजमान हैं।
- दक्षिण (South): 'वट वृक्ष' के नीचे शिव और पार्वती (Shiva & Parvati) त्रिशूल धारण किए स्थित हैं।
- पश्चिम (West): 'पीपल वृक्ष' के नीचे कामदेव और रति (Kama & Rati) इक्षु-धनुष (गन्ने का धनुष) लिए हुए हैं।
- उत्तर (North): 'प्रियंगु वृक्ष' के नीचे वराह भगवान और पृथ्वी देवी (Varaha & Bhumi) स्थित हैं।
इसका अर्थ यह है कि पालन (विष्णु), संहार (शिव), सृजन/कामना (कामदेव) और धारण (वराह/पृथ्वी) की शक्तियां भगवान गणेश के अधीन हैं और उन्हीं की सेवा कर रही हैं।
मंत्र रहस्य और अष्ट सिद्धियाँ
इस स्तोत्र में गुप्त रूप से बीज मंत्रों (Beeja Mantras) का संकेत दिया गया है। श्लोक 2 में 'तार' (ॐ), 'श्री' (श्रीं), 'परशक्ति' (ह्रीं), 'काम' (क्लीं) और 'वसुधा' (ग्लौं) जैसे बीजाक्षरों का उल्लेख है। साथ ही, श्लोक 12 में अष्ट सिद्धियों की शक्तियों—सिद्धि, समृद्धि, कान्ति, मदनावती, मदद्रवा, द्राविणी—का वर्णन है जो गणेश जी की सेवा में तत्पर रहती हैं।
फलश्रुति और लाभ (Benefits)
- त्रैलोक्य वशंवद (Mastery over Three Worlds): श्लोक 16 में स्पष्ट कहा गया है कि जो इस रहस्यमय स्तोत्र से स्तुति करता है, तीनों लोक (Triloki) उसके वश में हो जाते हैं।
- अतुलनीय ऐश्वर्य: चूंकि इसमें 'वसुधारा' और 'कल्पवृक्ष' का ध्यान है, यह साधक को अपार धन और समृद्धि (Prosperity) प्रदान करता है।
- विघ्न नाश और मोक्ष: यह स्तोत्र सभी प्रकार के विघ्नों का नाश कर अंत में 'परमानन्द' (Supreme Bliss) और मोक्ष प्रदान करता है।