Logoपवित्र ग्रंथ

हनुमत्पञ्जरस्तोत्रम्

हनुमत्पञ्जरस्तोत्रम्
श्रीपराशरसंहितान्तर्गते चतुस्सप्ततितमः पटलः
हनुमत्पञ्जरकथनं -
पराशरः -
पञ्जरन्तु प्रवक्ष्यामि श‍ृणु मैत्रेय ! आदरात् ॥ १॥

॥ अथ विनियोगः ॥
अस्य पञ्जरस्य ऋषिः श्रीरामचन्द्र भगवानिति च ।
छन्दोऽनुष्टुप् । श्रीपञ्चवक्त्रहनुमान देवतेति च । ह्रां बीजम् ।
स्वाहा शक्तिः । प्रणवो कीलकं स्मृतः । मन्त्रोक्त
देवताप्रसादसिध्यर्थे विनियोगः ॥

दीर्घयामाययायुक्तैः षडङ्गैः परिकीर्तितः ।
रामदूत, वानरमुख, वायुनन्दन तथा नृसिंहमुखपूर्वकं
अञ्जनासूनुः परञ्च । गरुडमुख च तथा हरिमर्कट पदं परम् ।
क्रोडमुखं पदञ्चान्तं रामकार्यधुरन्धरः ।
ततो अश्वमुखञ्चान्तम् । सर्वराक्षसनाशनः ।
सर्वेमुखशब्दान्ताः सर्वं चतुर्घ्यं तं गताः ।
षडङ्गे कराङ्गादयो ह्रां षट्कादिभिस्संयुतम् । न्यसेत्सर्व मनन्यधीः ।
ततो ध्यानं पठित्वातु पूर्वोक्तमार्गतो वापि पञ्जरमारभेत्ततः ॥ २॥

आदौ प्रणवमुच्चार्यं वन्दे हरिपदं ततः ।
उच्चार्य मर्कटपदं मर्कटायेति चोच्चरेत् ॥ ३॥

अग्निजायां समुच्चार्य द्वादशार्णो महामनुः ॥ ४॥

शिरः पातु मम सदा सर्वसौख्यप्रदायकः ॥ ५॥

आदौ प्रणवमुच्चार्य कपिबीजं ततोच्चरेत् ।
नृसिंहबीजमुच्चार्य गारुडञ्च समुच्चरेत् ॥ ६॥

वराहबीजमुच्चार्य हयग्रीवं ततोच्चरेन् ।
नमः पदं ततोच्चार्य स पञ्चास्य महाकपेः ।
चतुर्दशार्णमन्त्रोऽयं मुखं पायात्सदा मम ॥ ७॥

आदौ प्रणवमुच्चार्य नमो भगवते पदं ।
पञ्चवदनाय चोच्चार्य पूर्वमुखेति चोच्चरेत् ॥ ८॥

वानरं बीजमुच्चार्य कपिमुखाय चोच्चरेत् ।
सर्वशत्रुहरायेति महाबलाय चोच्चरेत् ॥ ९॥

अग्निजायां ततोच्चार्य सप्तत्रिंशाक्षराभिधः ।
कण्ठं मम सदा पातु सर्वशत्रुविनाशकः ॥ १०॥

उच्चार्यं प्रणवं चादौ नमो भगवतेतिच ।
नारसिंह महाबीज करालपदमुच्चरेत् ॥ ११॥

नृसिंहाय पदं चोक्त्या सकलभूतप्रेतच ।
पिशाच्चब्रह्मराक्षस प्रमथनाय पदं वदेत् ॥ १२॥

अग्निजायां ततोच्चार्य वसु वेदार्णको मनुः ।
हृदयं मे सदा पातु सर्वशत्रुविनाशकः ॥ १३॥

ॐ नमो भगवतेति पञ्चवदनाय ततः ।
पश्चिममुखेति चोच्चार्य गारुडं बीजमुच्चरेत् ॥ १४॥

वीरगरुडाय महाबलायेति पदं ततः ।
सर्वनाग प्रमथना यान्ते सकलविषेति ॥ १५॥

हराय स्वाहा त्वं ततः वेदाभ्यक्षरसंयुतः ।
हनुमन्ममोदरं पातु सर्वरोगनिबर्हणः ॥ १६॥

ॐ नमो भगवतेति पञ्चवदनाय ततः ।
उत्तरमुखे चोज्चार्यं क्रोडवाग्बीजमुच्चरेत् ॥ १७॥

आदिवाराह सर्वसम्पत्प्रदाय निधि भूमिच ।
प्रदाय पश्चाज्ज्वरेति रोग निकृन्तन स्वाहा ॥ १८॥

नाभिं पातु मम सदा सुखसौभाग्य हेतुकः ।
नेत्र बाणार्णको मनोः पश्चात्प्रणवमुच्चरेत् ॥ १९॥

ॐ नमो भगवते पञ्चवदनाय पदं ततः ।
ऊर्ध्वमुखेत्यन्ते हयबीजं ततः परम् ॥ २०॥

हयग्रीवाय सकलप्रदाय सकलेतिच ।
जनवशीकरणाय सकल दानवान्तकाय ॥ २१॥

पश्चात्प्राज्ञाय स्वाहेति षट्पञ्चाशद्वर्णको मनुः ।
मम जानुद्वयं पातु सर्व राक्षसनाशकः ॥ २२॥

ॐ च ह्रीमित्ययं चोक्त्वा नमो भगवते ततः ।
ब्रह्मास्त्रसंहारकाय राक्षसकुलनाशयेति ॥ २३॥

पताक हनुमतेति मायाबीजत्रयं ततः ।
क्रोडास्त्र वह्निजायां तं मनुः पादद्वयं मम ॥ २४॥

ह्रां नमः पञ्चवक्त्राय नाभिदेशं सदा मम ।
ह्रीं नमः पञ्चवक्त्राय पातु जङ्घद्वयं मम ।
ह्रूं नमः पञ्चवक्त्राय पातु जानुद्वयं मम ।
ह्रैं नमः पञ्चवक्त्राय पादद्वन्द्वं सदावतु ।
ह्रौं नमः पञ्चवक्त्राय कटिदेशं सदावतु ।
ह्रः नमः पञ्चवक्त्राय चोदरं पातु सर्वदा ।
ऐं नमः पञ्चवक्त्राय हृदयं पातु सर्वदा ।
क्लां नमः पञ्चवक्त्राय बाहुयुग्मं सदावतु ।
क्लीं नमः पञ्चवक्त्राय करयुग्मं सदा मम ।
क्लूं नमः पञ्चवक्त्राय कण्ठदेशं सदावतु ।
क्लैं नमः पञ्चवक्त्राय चुबुकं मे सदावतु ।
क्लौं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम ।
क्लः नमः पञ्चवक्त्राय नेत्रयुग्मं सदावतु ।
रां नमः पञ्चवक्त्राय शोत्रयुग्मं सदावतु ।
रीं नमः पञ्चवक्त्राय फालं पातु महाबलः ।
रूं नमः पञ्चवक्त्राय शिरः पायात्सदा मम ।
रैं नमः पञ्चवक्त्राय शिखां मम सदावतु ।
रौं नमः पञ्चवक्त्राय मूर्धानं पातु सर्वदा ।
रः नमः पञ्चवक्त्राय मुखं पातु सदा मम ।
क्ष्रां नमः पञ्चवक्त्राय श्रोत्रयुग्मं सदावतु ।
क्ष्रीं नमः पञ्चवक्त्राय नेत्रयुग्मं सदा मम ।
क्ष्रूं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम ।
क्ष्रैं नमः पञ्चवक्त्राय भॄयुग्मं पातु सर्वदा ।
क्ष्रौं नमः पञ्चवक्त्राय नासिकां पातु सर्वदा ।
क्षः नमः पञ्चवक्त्राय कण्ठं पातु कपीश्वरः ।
ग्लां नमः पञ्चवक्त्राय पातु वक्षस्थलं मम ।
ग्लीं नमः पञ्चवक्त्राय बाहुयुग्मं सदा मम ।
ग्लूं नमः पञ्चवक्त्राय करयुग्मं सदावतु ।
ग्लैं नमः पञ्चवक्त्राय मम पातु वलित्रय ।
ग्लौं नमः पञ्चवक्त्राय चोरदं पातु सर्वदा ।
ग्लः नमः पञ्चवक्त्राय नाभिं पातु सदा मम ।
आं नमः पञ्चवक्त्राय वानराय कटिं मम ।
ईं नमः पञ्चवक्त्राय ऊरुयुग्मं सदावतु ।
ऊं नमः पञ्चवक्त्राय जानुद्वन्द्वं सदा मम ।
ऐं नमः पञ्चवक्त्राय गुल्फद्वन्द्वं सदावतु ।
औं नमः पञ्चवक्त्राय पादद्वन्द्वं सदावतु ।
अः नमः पञ्चवक्त्राय सर्वाङ्गानि सदावतु ॥ २५॥

वानरः पूर्वतः पातु दक्षिणे नरकेसरिः ।
प्रतीच्यां पातु गरुड उत्तरे पातु सूकरः ।
ऊर्ध्वं हयाननः पातु सर्वतः पातु मृत्युहा ॥ २६॥

वानरः पूर्वतः पातु आग्नेय्यां वायुनन्दनः ।
दक्षिणे पातु हनुमान् निरृते केसरीप्रियः ॥ २७॥

प्रतीच्यां पातु दैत्यारिः वायव्यां पातु मङ्गलः ।
उत्तरे रामदासस्तु निम्नं युद्धविशारदः ॥ २८॥

ऊर्ध्वे रामसखः पातु पाताले च कपीश्वरः ।
सर्वतः पातु पञ्चास्यः सर्वरोगविकृन्तनः ॥ २९॥

हनुमान पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीचि मक्षघ्नो उदीच्यां सागरतारकः ॥ ३०॥

ऊर्ध्वं केसरीनन्दनः पात्वधस्ताद्विष्णुभक्तः ।
पातु मध्यप्रदेशेतु सर्वलङ्का विदाहकः ॥ ३१॥

एवं सर्वतो मां पातु पञ्चवक्त्रः सदा कपिः ॥ ३२॥

सुग्रीवसचिवः पातु मस्तकं मम सर्वदा ।
वायुनन्दनः फालं मे महावीरः भ्रूमध्यमम् ॥ ३३॥

नेत्रे छायापहारीच पातु श्रोत्रे प्लवङ्गमः ।
कपोलौ कर्णमूलेच पातु श्रीरामकिङ्करः ॥ ३४॥

नासाग्रमञ्जनासूनुः पातु वक्त्रः हरीश्वरः ।
पातु कण्ठच दैत्यारिः स्कन्धौ पातुसुरार्चितः ॥ ३५॥

जानौ पातु महातेजः कूर्परौ चरणायुधः ।
नखान् नखायुधः पातु कक्षं पातु कपीश्वरः ॥ ३६॥

सीताशोकापहारीतु स्तनौ पातु निरन्तरम् ।
लक्ष्मणप्राणदाताऽसौ कुक्षि पात्वनिशं मम ॥ ३७॥

वक्षौ मुद्रापहारीच पातु भुजायुधः ।
लखिणीभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ ३८॥

नाभिञ्च रामदासस्तु कटिं पात्वनिलात्मजः ।
गुह्यं पातु महाप्राज्ञः सन्धौ पातु शिवप्रियः ॥ ३९॥

ऊरूच जानुनी पातु लङ्काप्रासादभञ्जनः ।
जङ्घौ पातु कपिश्रेष्ठः गुल्फो पातु महाबलः ॥ ४०॥

अचलोद्धारकः पातु पादौ भास्करसन्निभः ।
अङ्गान्यमितसत्वाढ्यः पातु पादाङ्गुलिस्सदा ॥ ४१॥

सर्वाङ्गानि महाशूरः पातु मां रोमवान् सदा ।
भार्यां पातु महातेजः पुत्रान् पातु नखायुधः ॥ ४२॥

पशून् पञ्चाननः पातु क्षेत्रं पातु कपीश्वरः ।
बन्धून् पातु रघुश्रेष्ठः दासः पवनसम्भवः ॥ ४३॥

सीता शोकापहारी सः गृहान् मम सदावतु ॥ ४४॥

॥ अथ फलश्रुतिः ॥
हनुमत्पञ्जरं यस्तु पठेद्विद्वान् विचक्षणः ।
स एष पुरुषश्रेष्ठो भक्ति मुक्तिञ्च विन्दति ॥ ४५॥

कालत्रयेऽप्येककाले पठेन्मासत्रयं नरः ।
सर्वशत्रून् क्षणे जित्वा स्वयञ्च विजयी भवेत् ॥ ४६॥

अर्धरात्रौ जले स्थित्वा सप्तवारं पठेद्यदि ।
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ॥ ४७॥

अर्कवारेऽश्वत्थमूले स्थित्वा पठति यः पुमान् ।
स पुमान् श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ॥ ४८॥

अनेन मन्त्रितं चापि यः पिबेत् रोगपीडितः ।
स नरो रोगनिर्मुक्तः सुखी भवति निश्चयः ॥ ४९॥

यो नित्यं ध्यायेद्यस्तु सर्वमन्त्रविनिर्मितम् ।
तं दृष्ट्वा देवतास्सर्वे नमस्यन्ति कपीश्वरम् ॥ ५०॥

राक्षसास्तु पलायन्ते भूता धावन्ति सर्वतः ॥ ५१॥

इदं पञ्जरमज्ञात्वा यो जपन्मन्त्रनायकम् ।
न शीघ्रं फलमाप्नोति सत्यं सत्यं मयोदितम् ॥ ५२॥

त्रिकालमेककालं वा पञ्जरं धारयेच्छुभम् ।
पञ्जरं विधिवज्जप्त्वा स्तोत्रैः वेदान्तसम्मितैः ।
तोषयेदञ्जनासूनुं सर्वराक्षसमर्दनम् ॥ ५३॥

इतीदं पञ्जरं यस्तु पञ्चवक्त्रहनुमतः ।
धारयेत् श्रावयेद्वापि कृतकृत्यो भवेन्नरः ॥ ५४॥

॥ इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेयसंवादे श्रीपञ्चमुखहनुमत्पञ्जरं नाम चतुस्सप्ततितमः पटलः सम्पूर्णम् ॥

इस स्तोत्र का विशिष्ट महत्व

हनुमत्पञ्जरस्तोत्रम्, श्रीपराशरसंहिता में ऋषि पराशर द्वारा मैत्रेय को दिया गया एक अत्यंत गोपनीय और शक्तिशाली स्तोत्र है। "पञ्जर" का शाब्दिक अर्थ है 'पिंजरा' या 'कवच'। यह स्तोत्र एक आध्यात्मिक रक्षा कवच (spiritual armor) के रूप में कार्य करता है, जो साधक को सभी दिशाओं और सभी प्रकार के संकटों से बचाता है। इस स्तोत्र की सबसे बड़ी विशेषता यह है कि यह भगवान श्रीपञ्चवक्त्र हनुमान (Panchamukhi Hanuman) को समर्पित है। इसमें हनुमान जी के पांचों मुखों - वानर, नृसिंह, गरुड़, वराह, और हयग्रीव - की शक्तियों का आह्वान किया जाता है, जो क्रमशः पूर्व, दक्षिण, पश्चिम, उत्तर और ऊर्ध्व दिशाओं से आने वाली सभी बाधाओं और नकारात्मक शक्तियों का शमन करते हैं। यह स्तोत्र साधक के शरीर के प्रत्येक अंग की बीज मंत्रों से रक्षा करता है, जिससे यह एक अभेद्य सुरक्षा कवच बन जाता है।

स्तोत्र के प्रमुख भाव और लाभ (फलश्रुति पर आधारित)

इस हनुमत्पञ्जरस्तोत्रम् की फलश्रुति स्वयं पराशर ऋषि द्वारा वर्णित है, जो इसके पाठ से प्राप्त होने वाले चमत्कारी और अचूक लाभों को दर्शाती है:
  • सर्वशत्रु विजय (Complete Victory over All Enemies): जो व्यक्ति तीन माह तक नियमित रूप से इस पञ्जर का पाठ करता है, वह क्षण भर में सभी शत्रुओं (enemies) को पराजित कर स्वयं विजयी होता है।
  • असाध्य रोगों का निवारण (Cure for Incurable Diseases): अर्धरात्रि में जल में खड़े होकर सात बार इसका पाठ करने से क्षय (tuberculosis), अपस्मार (epilepsy), कुष्ठ (leprosy) आदि महारोगों तथा तीव्र ज्वर का निश्चित रूप से निवारण होता है।
  • धन-प्राप्ति और युद्ध में विजय (Attainment of Wealth and Victory in Battle): रविवार के दिन पीपल के वृक्ष के नीचे बैठकर इसका पाठ करने से साधक को प्रचुर धन (wealth) की प्राप्ति होती है और वह संग्राम में अजेय रहता है।
  • भूत-प्रेत और नकारात्मक शक्तियों से मुक्ति (Freedom from Evil Spirits and Negative Energies): इसका नित्य ध्यान करने वाले को देखकर देवता भी नमस्कार करते हैं, और राक्षस तथा भूत-प्रेत (demons and ghosts) भयभीत होकर दूर भाग जाते हैं।
  • परिवार और संपत्ति की पूर्ण सुरक्षा (Complete Protection of Family and Property): यह स्तोत्र केवल साधक की ही नहीं, बल्कि उसकी पत्नी, पुत्रों, पशुओं, खेतों, बंधुओं और घर की भी सभी प्रकार के संकटों से पूर्ण सुरक्षा (protection) करता है।
  • भक्ति और मोक्ष की प्राप्ति (Attainment of Devotion and Liberation): यह स्तोत्र भौतिक लाभों के साथ-साथ साधक को भक्ति और मुक्ति (liberation) दोनों प्रदान करता है, जिससे वह पुरुषश्रेष्ठ बनता है।

पाठ करने की विधि और विशेष अवसर

  • यह एक अत्यंत शक्तिशाली तांत्रिक स्तोत्र है, इसलिए इसका पाठ पूरी पवित्रता, श्रद्धा और एकाग्रता के साथ करना चाहिए।
  • पाठ से पहले स्तोत्र में दिए गए विनियोग और षडङ्गन्यास (करन्यास और हृदयादि न्यास) का विधान अवश्य करें। यह प्रक्रिया शरीर को शुद्ध कर मंत्र ऊर्जा को धारण करने के योग्य बनाती है।
  • मंगलवार (Tuesday) या शनिवार (Saturday) का दिन इस पाठ के लिए विशेष रूप से शुभ है।
  • किसी विशेष संकट या रोग निवारण के लिए, फलश्रुति में बताई गई विशेष विधि का पालन करें (जैसे जल में खड़े होकर या पीपल के वृक्ष के नीचे पाठ करना)।
  • पराशर ऋषि के अनुसार, किसी भी हनुमान मंत्र का पूर्ण फल प्राप्त करने के लिए इस पञ्जर स्तोत्र का ज्ञान होना आवश्यक है, क्योंकि इसके बिना मंत्र-सिद्धि में विलंब होता है।