Logoपवित्र ग्रंथ

गङ्गासहस्रनामस्तोत्रम्

गङ्गासहस्रनामस्तोत्रम्
पार्वत्युवाच -
देव देव महादेव भक्तानां प्रीतिवर्धन ।
कानि नामानि प्रोक्तानि तेन राज्ञा महात्मना ॥ १॥
सहस्रनाम गङ्गायाः स्तोत्रं परमदुर्लभम् ।
वद मे देवशार्दूल भक्तास्मि सततं प्रिया ॥ २॥

ईश्वर उवाच -
साधु साधु महादेवि पृष्टं नामामृतं त्वया ।
गुह्याद्गुह्यतरं स्तोत्रं प्रवक्ष्यामि समासतः ॥ ३॥
यस्य स्मरणमात्रेण नरो वै शिवतां व्रजेत् ।
पठनाल्लिखनाच्चैव पूजनात् किं न जायते ॥ ४॥
श्लोकमेकं पठित्वापि गङ्गायाः शतयोजने ।
गङ्गास्नानफलं सद्यः प्राप्नुयान्नात्र संशयः ॥ ५॥
सहस्रनामस्तोत्रस्य भगीरथऋषिर्मतः ।
छन्दोऽनुष्टुप् तथा ख्यातं गङ्गा वै देवता मता ॥ ६॥
सर्वतः पापनाशार्थं सर्वकामार्थसिद्धये ।
अक्षयस्वर्गकामाय विनियोगः प्रकीर्तितः ॥ ७॥

ॐ गङ्गा सरिद्वरा विष्णुपादाम्बुजजनिः परा ।
शिवशेखरसंवासा ब्रह्मणः कलशस्थिता ॥ ८॥
आकाशगामिनी भद्रा चतुरात्मा प्रवाहिनी ।
ब्रह्मरन्ध्रसमुद्भूता ब्रह्मरन्ध्रनिवासिनी ॥ ९॥
ब्रह्मरन्ध्रधरा देवी सर्वकामार्थदायिनी ।
ब्रह्माण्डभेदनपरा परब्रह्मधरा परा ॥ १०॥
द्रवरूपधरा चैव शिवसङ्गमदायिनी ।
मुक्तिदा भुक्तिदानङ्गा शत्रुदावानलात्मिका ॥ ११॥
अनङ्गाङ्गी त्रिमूर्तिश्च ब्रह्माणी कमला स्थिता ।
सरस्वती च सावित्री जयसेना जयात्मिका ॥ १२॥
जयभद्रा वैष्णवी च चिच्छक्तिः परमेश्वरी ।
त्रयी वेदवदान्या च मेदिनी भेदिनी घरा ॥ १३॥
वेदमूर्तिस्त्रिमूर्तिश्च देवमूर्तिर्दयापरा ।
दामिनी दामिनीवासा कुलिशा कुलिशप्रिया ॥ १४॥
कुलिशाङ्गी कुलाङ्गी च कुलनाथकुटुम्बिनी ।
कुलीना सुभगा भाग्या भाग्यगम्या यशोमती ॥ १५॥
कला कलाधरधरा कलाधरशतप्रिया ।
षोडशी षोडशाराध्या षोढान्याससहायिनी ॥ १६॥
षोढा समासविलया षोढाङ्गी कालरूपिणी ।
कालिका मुण्डमाला च कालानां शतनाशिनी ॥ १७॥
कालाङ्गी कालनिलया काला कालेश्वरी वरा ।
शैवी माया शिवा रुण्डा चण्डमुण्ड विनाशिनी ॥ १८॥
चण्डाट्टहासा दुर्गम्या चण्डानां प्रीतिवर्द्धिनी ।
चण्डेश्वरी महाप्राज्ञा प्रसाधीः सिद्धिदायिनी ॥ १९॥
लक्षलाभस्य जननी शतलाभा सुरेश्वरी ।
कौमारी शक्तिरुद्दिष्टा क्रौचदैत्यविनाशिनी ॥ २०॥
तारकासुरहन्त्री च तारकामयगामिनी ।
तारकस्य पराशक्तिस्तारकाणां पतिप्रिया ॥ २१॥
तारकेशपरा ज्योत्स्ना तारेशशतरूपिणी ।
नारायणी दयासिन्धुः सिन्धूत्तरनिवासिनी ॥ २२॥
सिन्धुश्रेष्ठतमा भार्या रत्नदा रत्नहारिणी ।
जलन्धरस्य जननी जलन्धरविरूपिणी ॥ २३॥
काममाता च कामघ्नी रतिरूपा शतप्रिया ।
भीष्ममाता महाभीष्मा भीष्माणां प्रीतिवर्द्धिनी ॥ २४॥
ज्वाला कराली तुङ्गेशी तुङ्गशेखरवासिनी ।
तुङ्गेश्वरसहाया वदर्याश्रमवासिनी ॥ २५॥
श्रीक्षेत्रनिलया चैव द्वारस्था द्वारपालिनी ।
जाह्नवी जह्नुतनया नागालयनिवासिनी ॥ २६॥
नागानां जननी चैव नागप्रीतिविवर्द्धिनी ।
नागेश्वरसहाया च कैलासनिलया तथा ॥ २७॥
महाप्रभा वरेण्या च वेदमाता विलासिनी ।
हरसङ्गरता चैव हरिपादविनिःसृता ॥ २८॥
अदितिश्च दितिश्चैव कद्रू च विनता तथा ।
सुरसा चाग्निभार्या च रत्नगर्भा विभावरी ॥ २९॥
शारदी वै चन्द्रकला नलकूबरसेविता ।
अरिष्टनेमिदुहिता नहुषाङ्गणवासिनी ॥ ३०॥
शन्तनोर्गुहिणी भव्या वसुमाता कृशोदरी ।
मत्स्योदरी सुराराध्या सुराणां प्रीतिदायिनी ॥ ३१॥
यमुना चन्द्रभागा च शतद्रूः सरयूस्तथा ।
सरस्वती शुभामोदा नन्दनाद्रिनिवासिनी ॥ ३२॥
नन्दप्रियाङ्गनिलया देवतीर्थनिवासिनी ।
रुद्राणी रुद्रसावित्री महाभैरवनादिनी ॥ ३३॥
भैरवी भाषणवरा भृगुतुङ्गनिवासिनी ।
केदारशिखरावासा महावलयवासिनी ॥ ३४॥
तुङ्गभद्रा सुषेणा च मान्धातृजयदायिनी ।
भूतभव्यपरा शर्वाखर्ववर्गा नृपेश्वरी ॥ ३५॥
भविष्यज्ञानदा भूतज्ञानदा वर्तमानदा ।
शुक्रस्य जननी सौम्या व्यासमाता सुरेश्वरी ॥ ३६॥
धारापानधरा धीरा धैर्यदा शुभदायिनी ।
कङ्कणा कङ्कणप्रख्या शुभकङ्कणदायिनी ॥ ३७॥
कङ्कणैः पातकहरा प्रबला शत्रुनाशिनी ।
स्मरतां मुक्तिदा भुक्तिरूपा रूपविवर्जिता ॥ ३८॥
देवानीका देवसेव्या सेवारूपफलामला ।
कृत्तिका कार्तिकावासा कार्तिकस्नानदायिनी ॥ ३९॥
पुष्करा पुष्करावासा पुष्पप्रचयसुन्दरी ।
मुनिसेव्या मुनिर्मेना मानवाकारधारिणी ॥ ४०॥
मैनाकशिखरावासा काशीपुरनिवासिनी ।
महाप्रयागनिलया तीर्थराजप्रसाधिनी ॥ ४१॥
अक्षया क्षयरूपा संसारक्षयकारिणी ।
मृगशीर्षधरा मार्गशीर्षस्नानफलप्रदा ॥ ४२॥
पुष्यनक्षत्ररूपा च पौषेऽतीवफलप्रदा ।
माघी मघायुता माध्या माघस्नाननिवासिनी ॥ ४३॥
श्री पञ्चमी श्रियोरूपा षष्टिचारण्यसंज्ञिता ।
अचला निश्चला जम्बूर्जम्बूद्वीपसहायिनी ॥ ४४॥
भीष्माष्टमी भीष्मगर्भा भीष्मपञ्चकसेविता ।
एकादशी द्वादशी च पुण्यापुण्यसहायिनी ॥ ४५॥
पुण्यदा पुण्यनिलया पुण्याङ्गी चारुवाहिनी ।
फाल्गुनी फाल्गुने सेव्या होलिका गन्धरूपिणी ॥ ४६॥
हुताशनी मह देवी सन्तुष्टा भस्मधारिणी ।
वसन्तर्तुसुसेव्या च वसन्तोत्सवदायिनी ॥ ४७॥
चैत्री चित्रा पुष्पगणरूपा गणेश्वरी ।
मकरन्दस्वरूपा च मकरन्दनिवासिनी ॥ ४८॥
चैत्रशुक्लप्रतिपदा वर्षारम्भकरा शुभा ।
माधवी माधवागारा माधवप्रीतिदायिनी ॥ ४९॥
विशाखा वेणुपापघ्न्नी वैशाखी भानुसप्तमी ।
वैशाखस्नानशुभदा पिण्डाकरनिवासिनी ॥ ५०॥
तथाक्षयतृतीया च सक्तुदानशुभप्रदा ।
प्रपापुण्यप्रदा चैव नित्यस्नानवशीकृता ॥ ५१॥
ज्येष्ठा ज्येष्ठस्य महता दशपापप्रणाशिनी ।
निर्जला रूपिणी चैव तथानलशया मता ॥ ५२॥
आषाढी चारुसर्वाङ्गी तथा हरिशयस्थिता ।
श्रावणी श्रवणानन्दा सर्वसौख्यप्रदायिनी ॥ ५३॥
भद्रा भाद्रपदे सेव्या जन्मा जन्माष्टमी तथा ।
दूर्वापूजनसन्तुष्टा बीजाङ्कुरनिवासिनी ॥ ५४॥
आश्विने सुतरां सेव्या पितृभक्तिप्रदायिनी ।
नवमी कृष्णपक्षस्य शुक्लपक्षस्य पूर्णिमा ॥ ५५॥
नवरात्रसहाया च कालरात्रिर्महाष्टमी ।
अश्विनी भौमवारस्य शतरूपा ह्ययोनिजा ॥ ५६॥
हरसेव्या हराङ्गी च हरमन्दिरगामिनी ।
प्रमोदा मोदसङ्कल्पा नानारूपा महोदरी ॥ ५७॥
महानन्दप्रदात्री च नानालङ्कारधारिणी ।
अलङ्कारप्रिया चैव नानातिथिसमाश्रया ॥ ५८॥
तिमिङ्गिलधरा स्वच्छा नानाग्रावविदारिणी ।
गण्डशैलवहा चैव कामदेवधराम्बरा ॥ ५९॥
सर्वतीर्थमयी सर्वदेवदानवरूपिणी ।
काशीप्रान्तवहा तुच्छप्रवाहा भारनाशिनी ॥ ६०॥
भरणी भारणाङ्गी च तथ्यातथ्यप्रिया सती ।
सतीनां प्रथमं गण्या गण्या सर्वमयी प्रभुः ॥ ६१॥
धीर्द्धारणावती सर्वजनस्य हृदि संस्थिता ।
स्थितिरूपा स्थितिधरा स्थिराङ्गी कमलप्रिया ॥ ६२॥
कुशोच्छिन्नतरा चैव दुर्वाङ्कुरविराजिता ।
तरङ्गिणी शैवलिनी तरङ्गशतसङ्कुला ॥ ६३॥
महाकच्छपनिलया कच्छपपृष्ठसंस्थिता ।
नानाजन्तुधरा प्रोक्ता नानाजन्तुविनाशिनी ॥ ६४॥
वर्षाकालतरा सौम्या वातकल्लोलकारिणी ।
तीरस्थशवसञ्च्छन्ना धन्यानां शववाहिनी ॥ ६५॥
तरङ्गशतशोभाढ्या तरङ्गशतमालिनी ।
स्वर्नारीकुचकुम्भस्य कुङ्कुमारुणसुन्दरी ॥ ६६॥
नानापुष्पोपहारा च सुखसम्पत्तिदायिनी ।
मन्दाकिनी सरिच्छ्रेष्ठा सर्वदेवविगाहिनी ॥ ६७॥
सर्वलोकमयी तन्द्रा तन्त्रशास्त्रविनोदिनी ।
तन्त्री तन्त्रस्थिता विद्या महादेवकुटुम्बिनी ॥ ६८॥
सर्वशास्त्रमयी नन्दा वासवेश्वरपालिनी ।
शची पुलोमजा तुङ्गा कश्यपस्य प्रिया मता ॥ ६९॥
सृष्टिः सृष्टिकृदाराध्या प्रलये कालरूपिणी ।
द्वादशादित्यसदृशी प्रभा त्रैलोक्यदीपिका ॥ ७०॥
त्रिलोकनिलया वेद्या रुद्ररूपाघमर्दिनी ।
मणिप्रचयसम्पूज्या मध्याह्नार्क निवासिनी ॥ ७१॥
प्रभातारुणसर्वाङ्गी सर्वकामप्रदायिनी ।
प्रातः सन्ध्या तथा प्रोक्ता सन्ध्या मध्याह्निकी मता ॥ ७२॥
सायं सन्ध्या तथा रात्रिसन्ध्या तिमिररूपिणी ।
निशीथतारका प्रख्या विद्युद्रूपा महोत्सवा ॥ ७३॥
दुःखानां च विहन्त्री च नाना दुःखनिवारिणी ।
विनोदिनी सुकल्लोला सागरस्वननिःस्वना ॥ ७४॥
गम्भीरावर्तशोभाढ्या गम्भीरगजगामिनी ।
नानापक्षिसमाकीर्णा जलकुक्कुटशोभिता ॥ ७ः५॥
जलजारुणसर्वाङ्गी शङ्खवत्कैरवाम्बरा ।
कुन्दश्वेता कुन्दभूषा श्वेताम्बरविराजिता ॥ ७६॥
राजहंसपरीवारा तटस्थद्रुमशोभिता ।
द्रुमाम्बरा द्रुमावासा वृहद्रुमविदारिणी ॥ ७७॥
पद्मलेखा पद्मसेव्या पद्मा पद्मजपूजिता ।
लक्ष्मी श्यामा वरारोहा वराङ्गी भुवनेश्वरी ॥ ७८॥
तारा श्रीदनिदा धन्या दानवानां विनाशिनी ।
छिन्नमस्ता च नक्षत्रा योगिनी योगसेविता ॥ ७९॥
योगगम्या योगिधरा योगिप्रीतिविवर्द्धिनी ।
योगमार्गरता साध्या साधकाभीष्टदायिनी ॥ ८०॥
सिद्धिदा सिद्धिसंसेव्या सिद्धिपूज्या सुरेश्वरी ।
साधिका साधना तुष्टा साधकानां प्रियङ्करी ॥ ८१॥
प्रद्युम्नस्यैव जननी प्रद्युम्नशतसुन्दरी ।
प्रद्युम्नाङ्गा सुप्रद्युम्ना वराभयकरा तथा ॥ ८२॥
वरदा वरसेव्या च वराङ्गी वरवर्णिनी ।
वनेचरगणाधीशा वनेचरजनप्रिया ॥ ८३॥
वनेचरान्दृशा हन्त्री वनेचरमनःप्रिया ।
सुखदा सुखसेव्या च सुभागा शतसंयुता ॥ ८४॥
बलभद्रसमाभासा बलभद्रप्रिया तथा ।
बलाराध्या बला वृष्टिर्बालानां प्रीतिवर्द्धिनी ॥ ८५॥
रामा रामप्रिया साध्वी सीतारामसुसेविता ।
रमणीया सुरम्याङ्गी तथा श्रीरमणप्रिया ॥ ८६॥
रेवती रैवते गम्या तथा रैवतवासिनी ।
रतिरूपधरा सुभ्रूर्नारदी नारदेरिता ॥ ८७॥
मृदङ्गशतसंवाद्या मृदङ्गशतपूजिता ।
पणवा पणवाकारा पणवेरितशब्दिका ॥ ८८॥
नानावादित्रकुशला वादित्रशतशोभिता ।
रससारा रसाकारा शतसारसशोभिता ॥ ८९॥
सन्धिः सन्धिस्वरूपा च सन्धिनिर्णयदीपिका ।
सन्धिस्वरूपदुर्गम्या स्वरसन्धिस्थिता प्रिया ॥ ९०॥
शब्दा शब्दस्वरूपा च शब्दशास्त्रप्रमोदिनी ।
युष्मदस्मत्स्वरूपा च कारका कारकप्रिया ॥ ९१॥
शब्दसन्धिस्वरूपा च तद्धितप्रत्यया परा ।
धातुवादरता चैव धातूनां सन्धिरूपिणी ॥ ९२॥
नैय्यायिकी तर्कविद्या तर्काराध्या सुतार्किका ।
चतुः प्रमाणगम्या च द्रव्यरूपा गुणेश्वरी ॥ ९३॥
कर्मज्ञा कर्मनिलया सामान्या समपूजिता ।
समवायस्थिता भावरूपा सर्वप्रियङ्करी ॥ ९४॥
पञ्चविंशतितत्त्वज्ञा मीमांसकरता तथा ।
मीमांसाशास्त्रनिरता तथा मीमांसकप्रिया ॥ ९५॥
मीमांसागम्यरूपा च कर्मब्रह्मप्रचोदिता ।
साङ्ख्या साङ्ख्यपरा सङ्ख्या साङ्ख्यसूत्रप्रमोदिनी ॥ ९६॥
प्रकृतिः पुरुषाकारा भिन्नाभिन्नस्वरूपिणी ।
स्पर्शिनी स्पर्शरूपा च स्पर्ध्या चुम्बकलोहवत् ॥ ९७॥
पातञ्जलिधरागम्या पतञ्जलिमुनिप्रिया ।
वेदान्तिनी वेदगम्या वेदान्तप्रतिपादिनी ॥ ९८॥
वेदान्तनिलया वेद्या वेदान्तिकजनप्रिया ।
अद्वैतरूपिणी चैव अद्वैतप्रविवादिनी ॥ ९९॥
अगम्याकाशरूपा च सर्वदेहस्वरूपिणी ।
वृथा सर्वप्रपञ्चा च संसारशतसङ्कुला ॥ १००॥
संसृतिर्मर्मनिरता धर्मनिष्ठा पुरावरा ।
धर्मिष्ठा धर्मनिरता धर्मशास्त्रप्रबोधिनी ॥ १०१॥
यज्ञीया यज्ञविद्या च यज्ञगम्या जनाधिपा ।
अश्वमेधादियज्ञानां जननी जानकीप्रिया ॥ १०२॥
यज्ञभूमिर्यज्ञदेवी यज्ञानां नाशकारिणी ।
यज्ञवाटस्थिता यज्ञा हविर्दात्री प्रभञ्जिनी ॥ १०३॥
वाय्वाहारा वायुसेव्या शीतवातमनोहरी ।
ललना सरला पूर्वा दक्षिणा वारुणी तथा ॥ १०४॥
कौबेरी च तथा शैवी आग्नेयी नैर्ঋती तथा ।
मारुती नन्दिनी चैव नन्दनारण्यवासिनी ॥ १०५॥
पातालनिलया सौम्या बोधी बुद्धकुलोद्भवा ।
राजनीतिर्दण्डनीतिस्त्रयीवार्तापरायणा ॥ १०६॥
स्वाहा स्वधा वषट्कारा ओङ्कारसदृशी च या ।
नारिकेलप्रिया खर्जूरप्रिया रोगविनाशिनी ॥ १०७॥
जगदाधाररूपा च रूपेणाप्रतिमा तथा ।
भद्रकालस्वरूपा च मधुकैटभनाशिनी ॥ १०८॥
योगमाया महामाया निद्रा तन्द्रा प्रवासिनी ।
नित्यानन्दस्वरूपा च सुधामात्रा त्रिधात्मिका ॥ १०९॥
निःप्रपञ्चा निराधारा खड्गचर्मधरा सरित् ।
वनौकसारा सवना अलका चामरावती ॥ ११०॥
भोगा भोगवती चैव यमसंयमनी कृपा ।
ईर्ष्यासूया तथा निन्दा तितिक्षा क्षान्तिरार्जवम् ॥ १११॥
दुर्गा दुर्गतमा दुर्गवासिनी वासवप्रिया ।
चन्द्रानना चन्द्रवती तथा त्रिपुरसुन्दरी ॥ ११२॥
त्रिपुरा त्रिपुरेशानी त्रिपुरेशी त्रिनेत्रका ।
त्रिपुरध्वंसिनी चित्रा नित्यक्लिन्ना भगेश्वरी ॥ ११३॥
शुभगा शुभगाराध्या भर्गपूजनतत्परा ।
सुवासिन्यर्चनप्रीता सुवासाः सुमनोहरा ॥ ११४॥
सुप्रकाशा निराबाधा शोभना शुम्भनाशिनी ।
रजोगुणविनिर्मुक्ता निर्मुक्ता मुक्तिदायिनी ॥ ११ः५॥
निःप्रकाशा निराधारा साधारा गुणसंयुता ।
गम्भीरवेदिनी सौरी तपनी तपनप्रिया ॥ ११६॥
अम्भोजिनी पुरारातिसेव्या तु सुरभिःस्वरा ।
नादिनी सुनदा नन्दी अम्बिका अम्बिकेश्वरी ॥ ११७॥
त्रिमार्गगा त्रिवलिनी त्रिजिह्वा त्रितयात्मिका ।
त्रिनन्दा त्रिप्रिया चैव अनसूया त्रिमालिनी ॥ ११८॥
त्रिपादिका त्रितन्त्री च तन्त्रशास्त्रप्रमोदिनी ।
मन्त्रज्ञा मन्त्रनिलया मन्त्रसाधनतत्परा ॥ ११९॥
मन्त्राणी मन्त्रसुभगा मन्त्रजाप्यजला विभुः ।
रक्तदन्ती रक्ततुण्डा रक्तबीजविनाशिनी ॥ १२०॥
रक्ताम्बरधरा रक्ता रक्ताक्षी रक्तवर्जिता ।
रक्ततृप्ता रक्तहरा रक्तस्य वृद्धिदायिनी ॥ १२१॥
हरिताभा हरिद्राभा हरिद्रागन्धपूजिता ।
हरिद्वारससम्पूज्या हरिद्राङ्गी हरित्स्थिता ॥ १२२॥
पीताम्बरधरानन्ता पीतगन्धसुवासिनी ।
कर्बुराङ्गी कर्बुरा च कर्बुराम्भःप्रपूजिता ॥ १२३॥
कनकाभा श्यामरूपा कामरूपधरा ।
कामरूपस्थिता विद्या कामरूपनिवासिनी ॥ १२४॥
पीठगा पीठसम्पूज्या पीठस्था पीठवासिनी ।
स्वर्णपीठासना पीठा सर्वपीठप्रपूजिता ॥ १२५॥
राजराजेश्वरी माला राजराजधनाधिपा ।
कुबेरगृहसम्पच्च यज्ञगन्धर्वसेविता ॥ १२६॥
विद्याधरगणाधीशा विद्याधरप्रपूजिता ।
यज्ञविद्या देवविद्या दैत्यविद्या विदेहिका ॥ १२७॥
शुक्रमाता शुक्रसेव्या शुक्रहस्तगता तथा ।
सञ्जीवनामृता विद्या कचगा कचसेविता ॥ १२८॥
देवयानी च शर्मिष्ठा शर्मदा शर्मभाविनी ।
सुरा सर्पिस्तथा माध्वी मदविह्वललोचना ॥ १२९॥
सर्वभक्ष्या सर्वगम्या सर्वस्वर्गप्रदायिनी ।
छन्दोमाता पिङ्गलाक्षी सूत्रपिङ्गलदीपिका ॥ १३०॥
वृत्ता वृत्तप्रिया मन्दा पापानां शतमर्दिनी ।
जगती पृथ्वी आर्या अनुष्टुप् त्रिष्टुबुष्णिका ॥ १३१॥
स्रग्धरा स्रग्धरा चैव माल्या माल्यप्रिया सुधीः ।
निर्ममा निरहङ्कारा निर्मोहा मोहवर्जिता ॥ १३२॥
मोहनाशकरा कार्या सर्वकार्यकरी मता ।
मोहिनी मोहवलया महावलयसुन्दरी ॥ १३३॥
सुमेरुशिखरावासा सुमेरुगृहपूजिता ।
सुमेरुमालिनी सुन्दा सुमुखी सुमुखप्रिया ॥ १३४॥
वैनायिका विघ्नहरी दुष्टविघ्नकरीश्वरी ।
मुक्ताम्बरा मुक्तकेशी मत्तमातङ्गगामिनी ॥ १३५॥
ज्वालाकरालवदना ज्वरनाम्नी जलोदरी ।
जलपूरितसर्वाङ्गी जलेश्वरप्रपूजिता ॥ १३६॥
जलेश्वरजनिर्जाया जालपा जालशोभिता ।
वृन्दा वृन्दाधिपा वृन्दसेविका वृन्दवृक्षिका ॥ १३७॥
त्वचा त्वचाविहीना च पल्वला पल्वले स्थिता ।
मीना मीनसहाया च मीनध्वजविमर्दिनी ॥ १३८॥
वडिशा वडिशाकारा धीवरा धीवरात्मजा ।
पारिजातप्रसूनाभा पारिजातप्रपूरिता ॥ १३९॥
पारिजाततटापारा कामधेनुर्विहङ्गमा ।
भेरुण्डा गरुडा गौडी गुडनैवेद्यवासिनी ॥ १४०॥
जातमात्रहरा जाता जातगम्या सुजातिका ।
कालिन्दी कालतनया कला षोडशिका तथा ॥ १४१॥
दशमी विजया नाम राज्ञां वै जगदायिनी ।
युद्धश्रीर्विजया नाम युद्धाङ्गणनिवासिनी ॥ १४२॥
मांसरक्ताशना चण्डा प्रचण्डा शिववल्लभा ।
शिवदा मथुरा वन्द्या काञ्ची द्वारावती तथा ॥ १४३॥
सरित्पतिप्रिया शुद्धा गङ्गासागरसङ्गमा ।
प्रद्युम्नपूजिता चुञ्चुचन्द्रिका चण्डसुन्दरी ॥ १४४॥
चम्पा चम्पकपुष्पाग्रा चम्पकाभा सुचैलिका ।
चञ्चत्तरङ्गा सर्वाद्या सर्वब्राह्मणपूजिता ॥ १४५॥
ब्राह्मणी ब्राह्मणाकारा ब्राह्मणैःशुभसंवृता ।
यज्ञोपवीतिनी विप्रा कुमारी वृहदानना ॥ १४६॥
बृहस्पतिप्रपूज्या च गुरुगीर्गुरुतत्परा ।
गुरुप्रीतिर्गुरोर्विद्या गुरुपूजनतत्परा ॥ १४७॥
गुर्विणी गुरुगम्या च गयासुरविनाशिनी ।
पञ्चक्रोशी पञ्चहीना पञ्चमी पञ्चसुन्दरी ॥ १४८॥
पञ्चेषुः पञ्चनिलया पञ्चास्या पञ्चमात्मिका ।
पञ्चपाण्डवमाता च कुन्ती कुन्तधराकरा ॥ १४९॥
तथा कुन्तलशोभाढ्या प्रमथा प्रमथा तथा ।
स्वतन्त्रकीर्तिः कार्यघ्न्नी द्वितीया कर्मसंस्थिता ॥ १५०॥
तृतीया करणे गम्या सम्प्रदाने चतुर्थिका ।
अपादाने पञ्चमी च तथा सम्बन्धषष्ठिका ॥ १५१॥
सप्तम्यधिकरणाख्या विभक्तिवरदातुरा ।
प्रतिबन्धस्य जननी औषधी वैद्यजीवनी ॥ १५२॥
हरीतकी च शुण्ठी च कणा हंसपदी तथा ।
हुंसेनी हुंकृतिर्हुंवा गौरार्या वृषभात्मिका ॥ १५३॥
गोस्तनी निम्नगा निम्बा नारदादिभिरर्चिता ।
रेणुका रेणुतनया रजोनाशनतत्परा ॥ १५४॥
पापराशिहरा मन्त्री तथा नीरजशोभना ।
जया रिक्ता सुषेणा च केदारपथगामिनी ॥ १५५॥
जलयन्त्रामरी कन्दा कन्दमूलफलाशिनी ।
पितृमाता पितृपूज्या पितृणां स्वर्गदायिनी ॥ १५६॥
भगीरथकृपा सिन्धुर्भवानी भवनाशिनी ।
सागरस्वर्गदा चैव सर्वसंसारगामिनी ॥ १५७॥

ईश्वर उवाच -
नाम्नां सहस्रमाख्यातं गङ्गायाः सर्वकामदम् ।
यस्तु वै पठते नित्यं मुक्तिभागी भवेन्नरः ॥ १५८॥
पुत्रार्थी लभते पुत्रं भगीरथसमं द्रुतम् ।
विद्यार्थी लभते विद्यां वाचस्पतिसमो भवेत् ॥ १५९॥
श्राद्धे शृणोति यो भक्त्या पठते वै समाहितः ।
दुर्गता अपि पितरो मुक्तिं गच्छन्त्यनामयाः ॥ १६०॥
तथा दशहरायां हि गङ्गामध्ये स्थितः पुमान् ।
पठते प्रत्यहं देवि तस्य मुक्तिर्न संशयः ॥ १६१॥

इति श्री स्कन्दपुराणान्तर्गत केदारखण्डतो भगीरथोपाख्याने गङ्गावतरणे द्वितीयोऽध्यायः ॥ २
संलिखित ग्रंथ पढ़ें

इस स्तोत्र का विशिष्ट महत्व

गङ्गासहस्रनामस्तोत्रम् (Ganga Sahasranama Stotram), पवित्र स्कन्द पुराण (Skanda Purana) के केदारखण्ड से लिया गया एक परम दुर्लभ और अत्यंत पुण्यदायी स्तोत्र है। यह स्तोत्र स्वयं भगवान शिव (Lord Shiva) द्वारा उनकी प्रिय पत्नी, देवी पार्वती (Goddess Parvati) को सुनाया गया था। इसमें देवी गंगा के एक हजार दिव्य नामों का संग्रह है, जिनमें से प्रत्येक नाम उनके एक विशिष्ट गुण, स्वरूप, लीला और माहात्म्य का वर्णन करता है। सहस्रनाम स्तोत्रों में इसका स्थान बहुत ऊँचा है क्योंकि यह "गुह्याद्गुह्यतरं" अर्थात् रहस्यों में भी सबसे बड़ा रहस्य कहा गया है। भगवान शिव स्वयं कहते हैं कि इसके स्मरण मात्र से मनुष्य शिवत्व को प्राप्त कर लेता है, जो इसकी सर्वोच्च महिमा को दर्शाता है।

स्तोत्र के प्रमुख भाव और लाभ (फलश्रुति पर आधारित)

इस सहस्रनाम के अंत में भगवान शिव द्वारा बताई गई फलश्रुति इसके पाठ से प्राप्त होने वाले अनगिनत लाभों को स्पष्ट करती है:
  • पापों से परम मुक्ति (Ultimate Freedom from Sins): भगवान शिव कहते हैं कि जो मनुष्य इस स्तोत्र का नित्य पाठ करता है, वह निश्चित रूप से मुक्ति (liberation) का भागी बनता है। यहाँ तक कि गंगा से सौ योजन दूर बैठकर भी इसका एक श्लोक पढ़ने से तत्काल गंगा-स्नान का फल मिलता है।
  • उत्तम संतान की प्राप्ति (Attainment of an Ideal Child): "पुत्रार्थी लभते पुत्रं भगीरथसमं द्रुतम्" - जो व्यक्ति पुत्र की कामना से इसका पाठ करता है, उसे शीघ्र ही राजा भगीरथ के समान तेजस्वी और गुणी पुत्र की प्राप्ति होती है।
  • सर्वश्रेष्ठ विद्या की प्राप्ति (Attainment of Supreme Knowledge): "विद्यार्थी लभते विद्यां वाचस्पतिसमो भवेत्" - विद्यार्थी यदि इसका पाठ करे तो वह देवगुरु बृहस्पति के समान विद्वान बन जाता है। यह स्तोत्र ज्ञान और विवेक (knowledge and wisdom) प्रदान करने में सर्वश्रेष्ठ है।
  • पितरों का उद्धार (Salvation for Ancestors): यदि कोई व्यक्ति श्राद्ध पक्ष में भक्तिपूर्वक इस स्तोत्र का पाठ करता या सुनता है, तो उसके दुर्गति में पड़े हुए पितरों को भी कष्टों से रहित होकर मोक्ष (salvation) की प्राप्ति होती है।
  • अक्षय स्वर्ग और निश्चित मोक्ष (Guaranteed Path to Heaven and Liberation): गंगा दशहरा के दिन गंगा नदी के मध्य खड़े होकर जो इस स्तोत्र का पाठ करता है, उसकी मुक्ति में कोई संशय नहीं रह जाता। इसका विनियोग ही "अक्षयस्वर्गकामाय" अर्थात् अक्षय स्वर्ग की कामना के लिए किया जाता है।

पाठ करने की विधि और विशेष अवसर

  • इस स्तोत्र का पाठ आरम्भ करने से पूर्व इसके विनियोग का पाठ अवश्य करें, जिसमें ऋषि, छंद, देवता और उद्देश्य का उल्लेख है। इससे पाठ का फल संकल्पित और शीघ्र प्राप्त होता है।
  • इसका नित्य पाठ करना सर्वोत्तम है। विशेष अवसरों जैसे गंगा दशहरा, गंगा सप्तमी, मकर संक्रांति, पूर्णिमा, एकादशी और श्राद्ध पक्ष में इसका पाठ करना अनंत गुना फलदायी होता है।
  • प्रातःकाल स्नान के बाद, स्वच्छ आसन पर बैठकर, माँ गंगा का ध्यान करते हुए पूर्ण श्रद्धा और शुद्ध उच्चारण के साथ इसका पाठ करना चाहिए।
  • यदि गंगा तट पर इसका पाठ करना संभव हो तो यह सबसे उत्तम है, अन्यथा अपने पूजा स्थान पर ही गंगाजल का पात्र सामने रखकर पाठ कर सकते हैं।